SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २५४ साहित्यसारम् । [ पूर्वार्धे अतिश्रमेण संपत्तिरनुभावविभावयोः। राधामवेक्ष्य गोविन्दः सायं स्वं वाससावृणोत् ॥ १८६ ॥ सापि निद्रां ततः क्वापि नापात्मपरिवर्तनैः । प्रतिकूलो विभावादिः प्रकृतस्य रसस्य यः॥ १८७ ॥ त्यज मानं प्रिये नैति स्खलितं यौवनामृतम् । प्रसीद हरिणाक्षि त्वं नोचेद्यामि वनं मुदा ॥ १८८॥ अङ्गीभूतरसस्यैव या च दीप्तिः पुनःपुनः। कुमारसंभवे मुख्यकरुणानेडितं तथा ॥ १८९ ॥ एवं महाकष्टेनानुभावविभावसंपादनमपि रसदोष एवेत्याह-अतिश्रमेणेति । तत्रायमुदाहरति-राधामिति । गोविन्दः भगवान् श्रीकृष्णः राधामवेक्ष्य अवलोक्य वाससा प्रावरणेन सायं प्रदोषे खं देहम् आवृणोदाच्छादितवानित्यन्वयः । अत्र राधानिरीक्षणमात्रेण स्वदेहे संपद्यमानरोमाञ्चादिसात्विकानुभावापलापप्रावण्यं भगवति संमतं तेन यन्निरुक्तरूपानुभावसंपादनं तद्रूढव्यङ्गयमर्यादयैव सिध्यतीत्यतिकष्टसाध्यमेवेति लक्षणसंगतिः। यथावा काव्यप्रकाशे-कर्पूरधू. लिधवलद्युतिपूरधौतदिङ्मण्डले शिशिररोचिषि तस्य यूनः । लीलाशिरोंशुकनिवेशविशेषकुप्तिव्यक्तस्तनोन्नतिरभूनयनावनौ सा' । अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावाः पर्यवसायिनः स्थिता इति कष्टकल्पनेति ॥ १८६ ॥ द्वितीयमुदाहरति-सापीत्यर्धेनैव । सापि प्रागुक्ता राधापीत्यर्थः । ततः निरुक्तश्रीकृष्णचेष्टायाः सायं निरीक्षणोत्तरमिति यावत् । आत्मेति । खाङ्गपरिवर्तनैरित्यर्थः । क्वापि रात्रेः कस्मिंश्चिदपि क्षण इतियावत् । निद्रां न आप नैव लेभ इति योजना। इह तत इत्यानन्तर्यमात्रवाचकम्। तेनाक्षिप्तप्रागुक्तभगवद्यापारसिद्धावपि राधाकर्तृकतन्निरीक्षणकल्पनं तथा तदन्यथापत्तिसिद्धभगवदाख्यालम्बनविभावकल्पनं च कष्टसाध्यमिति तथात्वं बोध्यम् । एवं प्रतिकूलविभावादिग्रहमपि दोषत्वेनाह -प्रतिकूल इति । आदिनानुभावादिः ॥ १८७ ॥ तत्र प्रतिकूलविभावमुदाहरति-त्यजेति । अत्र शृङ्गारः प्रकृतः । तद्विरुद्धस्य शान्तस्थायिनो निर्वेदस्य नैतीत्यादिना ध्वननात्तथात्वं स्पष्टमेव । यथावा काव्यप्रदीपे–'प्रसादे वर्तव प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यशान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः' इति । रघुवंशेपि-त्यजत मानमलं बत विग्रहैन पुनरेति गतं चतुरं वयः' इति । एवं प्रतिकूलानुभावमप्युदाहरति-प्रसीदेति । इह कान्तां विनैव हर्षेण वनगम. नाभिधस्य शान्तरसानुभावस्य प्रकृतशृङ्गारविरुद्धत्वं तथा तव्यञ्जितनिर्वेदाख्यव्यभिचारिणोऽपि च तद्विशदमेव ॥ १८८॥ एवं पुनः पुनरनङ्गिनो रसस्य दीप्तिमपि तथात्वेनाह–अङ्गीभूतेति । तदुदाहरणस्थलमाह-कुमारेति । अमु. ख्येति । अमुख्यः शृङ्गाराङ्गं योयं करुणो रसस्तस्य यदानेडितं द्वित्रिरुक्तं तदि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy