SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ सरसामोद व्याख्यासहितम् । एतेन रतिरेवैषा स्थायित्वात्पुष्पितालता । व्रीडयाधः किमित्यत्र सखि पश्यसि कातरम् ॥ १८५ ॥ विषरत्नम् ६ ] २५३ मिति शेषः । तत्राद्यमुदाहरति — शृङ्गारेति । इदं हि पार्वतीं प्रति तत्सखीवाक्यम् । हे गौरि, हरे शंभौ विषये तव स्मितम् । शृङ्गारेति । एतादृशं भवतीति भावः । स्वस्ववाचकशब्दैः कथनं हि सामान्यविशेषाभ्यां संभवतीति सामान्यवाचकं रसपदं विशेषवाचकं शृङ्गारपदं चेति बोध्यम् । यथावा काव्यप्रका शे–‘तामनङ्गजयमङ्गलश्रियं किंचिदुच्चभुजमूललोकिताम् । नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तर:' इति । 'आलोक्य कोमलकपोलतलाभिषिक्तव्यक्तानुरागसुभगामभिराममूर्तिम् । पश्यैष बाल्यमतिवृत्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति' इतिच यथावा गीतगोविन्दे --' विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवरश्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् । खच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति' इति । नन्वर्थदोपप्रतिपादनोत्तरं काव्यप्रकाशादौ तदपवादनिरूपणमपि कृतं त्वया तु कथं तदपहाय मण्डूकप्लुत्या रसदोषनिरूपणमेवारब्धमिति चेत्सत्यम् । अपवादेन हि किंचिदवच्छेदेन केषांचिद्दोषाणां गुणत्वाद्येव वाच्यम् । उक्तं हि चन्द्रालोके - 'दोषमापतितं स्वान्ते प्रसरन्तमशृङ्खलम् । निवारयति यस्त्रेधा दोषाङ्कुशमुशन्ति तम् । दोषे गुणत्वं तनुते दोषत्वं वा निरस्यति । भवन्तमथवा दोषं नयत्यत्याज्यतामसौ' इति । तथा चैतस्य गुणैकफलकत्वेन तदन्न एव वक्तमुचितत्वात्त्राचामुक्तेस्तु प्रौढिवादमात्रतया वा स्वातन्त्र्यवत्तया वा समाधातुं शक्यत्वाच्च । तस्माद्युक्तमेवात्रापवादानुपन्यसनमिति दिक् ॥ १८४ ॥ एवं स्थायिभावस्य सामान्यविशेषाभ्यां स्वशव्दवाच्यत्वमुदाहरति-- एतेनेत्यर्धेनैव । हे गौरि, एतेन पूर्वोक्तेन तब स्मितेन एषा निरुत्तस्मितोपलक्षितकटाक्षादिव्यक्तत्वेन प्रत्यक्षेत्यर्थः । रतिरेव स्थायित्वाद्यावद्रसं विद्यमानत्वात् । पुष्पिता कुसुमिता । लता कल्पलतास्तीत्यर्थः । व्यभिचारिणस्तु विशेषत एव स्वशब्दवाच्यतामुदाहरति - व्रीडयेति । अयि सखि, त्वं अत्र एवं मद्वाक्यश्रवणे सति व्रीडया लज्जया अधः नम्रम्, तथा कातरं एवं विनोदोऽनुचित इति सूचनाय किंचिद्वकं च किमिति पश्यसीत्यन्वयः । तस्मात्सख्ये त्वेतदयुक्तमेवेति भावः । यथावा काव्यप्रदीपे - ' सत्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमे प्रणयिनी दृष्टिः शिवायास्तु वः' । अत्र व्रीडादयो व्यभिचारिभावाः स्वशब्देनोपात्ताः । नच शब्देनोपात्तेषु व्यभिचार्यादिषु आस्वादसंभवोऽनुभूयते किंत्वनुभावादिमुखेनैव व्यक्तेषु । तस्मादास्वादानुत्पत्तिर्दोषत्वबीजमिति संप्रदाय इति । अधिकं तु तत्रैव ज्ञेयमिति संक्षेपः ॥ १८५ ॥ I २२
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy