SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्धे यत्रायुक्त विधिः सोऽयं विध्ययुक्तो द्विधा मतः । अविधेयविधेयत्वादयुक्तक्रमतोऽपि च ॥ १७३ ॥ व्युत्थापितः प्रयत्नेन स्यामहं सुसमाहितः । वाताशी भूशयानश्च कन्था मात्र परिग्रहः ॥ १७४ ॥ सत्वयुक्तानुवादो यो विधिद्रोह्यनुवादवान् । वियोग्यन्तक र चन्द्र ब्रूहि सीता व वर्तते ॥ १७५ ॥ क्षणं फलितम् । तेन सहचरभिन्नतो व्यतिरेकः । तत्र पदार्थस्यैव तथात्वात् । तमुदाहरति हरिरिति । अत्र प्रतिपाद्यो हरिकर्तृको राधास्यकर्मको नेत्रकरणकः परमादरनिरीक्षणलक्षणो वाक्यार्थस्तस्य पद्माद्युपमाघटितेन प्रकृतवाक्यार्थेन विरुद्ध एव चन्द्रोदये पद्मनिमीलनादनवलोकनरूपोऽर्थः प्रकाश्यत इति तथात्वम् । यथावा चन्द्रालोके—‘सरोजनेत्रपुत्रस्य मुखेन्दुमवलोकय । पालयिष्यति ते गोत्रमसौ नरपुरंदरः' इति ॥ १७२ ॥ अथ सूत्रे विध्यनुवादायुक्तत्वेनोद्दिष्टमपि काव्यप्रदीपे तावद्विध्ययुक्तत्वानुवादायुक्तत्वाभ्यां द्विधा विधाय प्रथमं विध्ययुक्तत्वेनैव प्रतिपादितं तं तथा लक्षयति-यत्रेति । अयुक्तविधित्वं तत्त्वमित्यर्थः । तेन विधेयाविमर्शेनातिप्रसङ्गः । तस्य प्राधान्येनाप्रतिपादित विधेयांशत्वादस्य तु अयोग्यविधित्वाच्च । तद्वैविध्यं प्रतिजानीते - द्विधेति । तत्र हेतू वदंस्तलक्षणे अपि संक्षिपति—अविधेयेति ॥ १७३ ॥ तावुदाहरति - व्युत्थापित इति । अत्र अहं तासु समाहितः परमसमाधिनिष्ठः कदा स्यां यथाऽन्यैः प्रयत्नेन व्यु - त्थापितः स्यामिति कस्यचिद्विदुषोऽभिलाषविशेषः प्रतीयते काक्का तदनङ्गीकारे तु प्रतिज्ञैव । तत्र निरुक्तयोजनानुसारेण विधिर्युक्तो नतु यथाश्रुतः व्युत्थानसमाथ्योर्विरोधादर्थवैपरीत्यापत्तेः । तेनेदमाद्यस्योदाहरणम् । यथा वेणीसंवरणे'प्रयत्नपरिबोधितस्तुतिभिरद्य शेषे निशामकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाय दो: शालिनामयेति रिपुकानना तिगुरुरद्य भारो भुवः' इति । वातेति । अत्र प्रातिलोम्येनैव त्यागाधिक्यव्यञ्जकः क्रमो युक्तस्तदभावात्त्वस्य तथात्वम् । अयुक्तक्रमत्वेन विध्ययुक्तार्थत्वादेवास्य क्रमप्रयुक्तभनप्रक्रमतो भेद इति तत्त्वम् ॥ १७४ ॥ एवमनुवादायुक्तं लक्षयति - सत्विति । यः विधिद्रोह्यनुवादवान् विधिविरुद्धावधारितार्थकथनशालीत्यर्थः । सतु अयुक्तानुवादो भवतीति योजना । एवंच विधिविरुद्धानुवादावच्छिन्नत्वमेव सूत्रोक्तानुवादायुक्तत्वमिति तत्त्वम् । तमुदाहरति-वियोगीति रे । वियोग्यन्तक । विरहिप्राणहरणनिपुणेत्यर्थः । एतादृश चन्द्र, सीता व वर्तते तत्स्थलं वं ब्रूहीति श्रीरामवाक्यान्वयः । इह वियोग्यन्तकेत्यनुवादः । सीता क्व वर्तते तद्रूहीति विधिविरुद्ध इति लक्षणसंगतिः । उक्तहि काव्यप्रदीपे - अनुवादायुक्तः अयुक्तानुवादः । अयुतवं चात्र विध्यननुगुणत्वम् । यथा - ' अरे रामाहस्ताभरणभसलश्रेणिशरण स्मरक्रीडात्रीडाशमन विरहिप्राणदमन । सरोहंसोत्तंस प्रचलदलनीलोत्पल सखे २५०
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy