________________
विषरत्नम् ६ ]
सरसामोदव्याख्यासहितम् ।
२४९
पत्नी चन्द्रमुखी लक्ष्मीः स्थिरा वाणी मनोहरा । क्षणिकं जीवितं हन्त सर्वसौख्यं व लभ्यते ॥ १७० ॥ योऽर्थः सहचरैर्भिन्नः स तथोत्कृष्टतादिना । विदा मुक्तिर्मुदा तृप्तिर्विपदा विकृतिर्भवेत् ॥१७१ ॥ प्रकाशितो मतार्थस्य विरुद्धो येन सोऽस्त्यसौ। हरिनयनपद्माभ्यां राधावकेन्दुमुत्पपौ ॥ १७२॥
चरितो युक्तस्तया कन्यया । उत्कर्ष च परस्य मानयशसोर्वियंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते' । अत्र स्त्रीरत्नमुपेक्षितुमित्याकाङ्क्षतीति । विस्तरस्तु प्रदीपतदुद्दयोतादौ बोध्यः । 'संबन्धवर्जितं यत्स्यात्तद्भिनं परिकीर्त्यते' इत्युक्तलक्षणस्य प्रतापरुद्रसंमतस्य भिन्नस्याप्यनेनैवाभिन्नत्वमुन्नेयमिति दिक् । ततः क्रमप्राप्तमपदमुक्तं लक्षयति-अस्थान इति। यत्र स्थले तद्योगात्प्रकृतविरुद्धप्रतीतिर्भवति तादृशस्थाने योऽर्थः उपक्षिप्तः संनिवेशितः सः अपदमुक्तः एतनामकोऽर्थदोष इष्यते पूर्वाचार्यैः स्वीक्रियत इति संबन्धः। तस्मात्प्रकृतविरुद्धप्रतीतियोजकस्थानविनिवेशितार्थत्वं तत्त्वमिति तल्लक्षणं परिणतम् । एतेन व्याहतसाङ्कर्यम् । अस्य स्थानमहिनैव विरुद्धप्रतीतिहेतुत्वात्तस्य तु वव तथोक्तत्वाच । एवं चास्य तदन्तर्भाववादी राकागमः प्रत्युकः। अत एव न प्रकाशितविरुद्धेऽन्तर्भावः अर्थत्वाच्च नापदस्थपदेपि ॥ १६९॥ तमुदाहरति-पत्नीत्येकेन । अत्र क्षणिकं जीवितमित्यनेन पूर्वार्धोक्तस्याखिलसौख्यसामग्रीजातस्य हेयत्वं विवक्षितं तस्य चोत्तरं स्थितसर्वेत्यस्यार्थेन समाधानवशादादरणीयत्वं पर्यवस्थतीति निरुक्तलक्षणसंगतिः । यथावा काव्यप्रदीपे–'आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिभूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । उत्पत्तिर्द्वहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः' इति ॥ १७० ॥ सहचरभिनं लक्षयति-योऽर्थ इति । यः अर्थः उत्कृष्टतादिना उत्कृष्टताऽपकृष्टताभ्यामित्यर्थः । सहचरैः समभिव्याहृतैः सहेति यावत् । भिन्नः विजातीयः स तथा सहचरभिन्नाभिधोऽर्थदोषो भवतीति योजना। एवंच समभिव्याहृतविजातीयत्वं तल्लक्षणं बोध्यम् । तमुदाहरति-विदेति । यथावा काव्यप्रकाशे-'श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना. नयेन चालंक्रियते नरेन्द्रता' । अत्र श्रुतादिभिरुत्कृष्टैः सहचरैर्व्यसनमूर्खतयोनिकृष्टयोभिन्नत्वम् । विनयेन धीरतेति पाठो युक्त इति । यथावा-'दुष्टसङ्गेन दौःशील्यं विपत्तिर्व्यसनेन च । अपथ्यच. र्यया व्याधिर्विद्याभ्यासेन वर्धते' इति ॥ १७१ ॥ एवं प्रकाशितविरुद्धं लक्षयति-प्रकाशित इति । येन वाक्यार्थेनेत्यर्थः । असौ प्रकाशितविरुद्धाभिधोऽर्थदोषोऽस्तीत्यन्वयः । तथाच प्रकाशितप्रतिपाद्यप्रतीपत्वे सति वाक्यार्थत्वं तल्ल.