SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्धे सामान्यपरिवृत्तोऽर्थः सः स्यात्तद्यत्र नोच्यते । इच्छां रोधय भो ब्रह्मज्ञानेनात्मा त्वयार्जितः ॥ १६८ ॥ साकाङ्क्षः श्रीपतिः कु राधिके मान एव ते । अस्थाने य उपक्षिप्तोऽपदमुक्तः स इष्यते ॥ १६९ ॥ मिति । अत्र गोप्यादिविरहिण्युक्तित्वात्काले वसन्तादिर्विशेषो वाच्यः । अन्यथा 'विवक्षितोद्दीपनोत्कर्ष सामग्र्यभावापत्तिः । ततस्तद्राहित्याल्लक्षणसमन्वयः। यथावा साहित्यदर्पणे—'यान्ति नीलनिचोलिन्यो रजनीष्वभिसारिका ः ' । अत्र तमिस्रास्विति रजनी विशेषो वाच्य इति ॥ १६७ ॥ एवं सामान्यपरिवृत्तं लक्षयतिसामान्येति । सः अर्थः सामान्यपरिवृत्तः स्यात् । कः स इति चेत् । तदिति । यत्रार्थे तत् सामान्यं नोच्यते न कथ्यत इत्यन्वयः । तथाच कथनीयसाधारण्य - विरहितार्थत्वं तलक्षणं बोध्यम् । तमुदाहरति- इच्छामिति । इह वृत्तिमिति यावद्वृत्तिसंग्राहकसामान्य निर्देशो वाच्यः । अन्यथा द्वेषादिमनोवृत्त्यन्तरानिरोधबोधापातः । तस्मात्तदनुक्तेरेव लक्षणसंगतिः । यथावा काव्यप्रदीपे - 'कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकराकर मावमंस्थाः । किं कौस्तुभेन भवतो विहितो न नाम याञ्चाप्रसारितकरः पुरुषोत्तमोऽपि ' । अत्र कौस्तुभेनेति विशेषतो रत्नवचनं नोचितम्। कौस्तुभमात्रस्योपकारकत्वेनान्यावमानन निषेधायोगात् । 'एकेन किं न भवतो विहितः स नाम' इति पाठे तु भेदानवगमाद्विवक्षित निर्वाह इति ॥ १६८॥ अथ साकाङ्क्ष लक्षयति—साकाङ्क्ष इति । आकाङ्क्षया अर्थस्यार्थान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वलक्षणया आर्थिक्या व्यपेक्षया सह वर्तत इति तथा । एवं चार्थान्तरसापेक्षार्थत्वमिति नानैव तल्लक्षणं परिस्फुटितम् । तमुदाहरतिश्रीत्याद्यर्धशेषेण । हे राधिके, श्रीपतिः कुझे ते तु मान एवेति योजना । इदं हि मानवतीं राधिकां प्रति तत्सखीवाक्यम् । तेन वऋभिमतयोगस्य निरुक्तयोजनयैव सिद्धत्वान्नैवात्र शाब्दी आकाङ्क्षा किंत्वार्थ्येव । साच श्रीपतिः कुञ्जे इत्यस्य वृन्दावनमालत्यादिलतासंजातनिलय विशेषनिष्ठाधिकरणतानिरूपिताधेयतावच्छिन्नः पद्माप्राणेश्वरलक्षणोऽर्थ एव त्वां प्रतीक्षत इत्यस्यार्थ व्यपेक्षत इति तद्रूपैव प्रकृते । अन्यथा यः कुञ्जे श्रीपतिः स ते मान एवेति राधिकामानातिरेकेण कुञ्जे श्रीपत्यसद्भावबोधनप्रयोजकान्वयवैपरीत्यापत्तेः । एवं चाकाङ्क्षाप्रयुक्ता भवन्मतयोगेनातिव्याप्तिः । अर्थैकसाकाङ्क्षत्वं न प्रकृते निरुक्तरीत्या मतयोगसत्वात् । एवं चेत्तर्हि कथमस्य साकाङ्क्षत्वम् । शृणु । यद्यपि वक्तृविवक्षितयोगोऽत्र वर्तत एव तथापि योयं विवक्षितोऽर्थः स एवार्थान्तरसाकाङ्क्ष इति । अत एव गागाभट्टेनोक्तोऽस्य न्यूनपदत्वान्तर्भावोऽपि व्युदस्तः । यदितु साकाङ्क्ष इति श्रीपतिविशेषणं तत्रापि त्वद्विषय इत्यस्यार्थस्य व्यपेक्षा वर्तत एव । नोचेत्तस्य गोप्यन्तरे साकाङ्क्षत्वसंभवेन मानऱ्याजनप्रार्थनध्वननानौचित्यापत्तिरित्यलं पल्लवितेन । यथावा काव्यप्रकाशे–'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिर्विरुद्ध २४८
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy