________________
विषरत्नम् ६]
सरसामोदव्याख्यासहितम् ।
त्यक्तोऽस्त्यनियमो यत्र स तथा गीयते बुधैः । सीते त्वं संपदेवासि रामस्य जगतीपतेः ॥ १६६ ॥ विशेषपरिवृत्तः स विशेषो यत्र नोदितः । कृष्णं विना कथं कार्य कालोऽयं समुपागतः ॥ १६७ ॥ चिदपि । विशेषे तु त्वदुक्तरूप एव शुक्लां गामानयेत्यादौ खविशेष्यस्य सजातीयमात्राद्भेदकत्वमेवेति न तच्छाब्दबोधकाले तदितरविधिनिषेधावपि । तेन नियमस्योक्तरीत्या निषेधमात्ररूपत्वेनाभाव विशेषत्वाद्विशेषस्य तु स्वविशेष्यसजातीयैकव्याकर्तकधर्मत्वलक्षणत्वेन भावरूपत्वात्कथं न वैलक्षण्यं स्यात् । नच ब्राह्मण एव वन्द्य इत्यादाववधारणप्रतिबोध्यस्य नियमस्य विजातीयमात्रनिवर्तकत्लोपलब्धेनलमुत्पलमित्यादौ तु सजातीयविजातीयोभयस्यापि व्यावृत्त्युपलम्भाच्छते पञ्चाशन्यायेन युक्त एव विशेषे तस्यान्तर्भाव इति वाच्यम् । ब्राह्मणोत्पलशब्दयोरेव जातिविशेषवाचित्वेन ताभ्यामेव स्वखविजातीयव्यावृत्तिसिद्ध्या नियमविशेषयोर्निरुक्तार्थमात्रपर्यवसन्नत्वात् । एवमनियमत्वमपि निरुक्तनियमबोधकशब्द विरह प्रयुक्तार्थविशेषत्वं सामान्यत्वं तु सखण्डाखण्डोपाध्यन्यतरत्वमिति तयोरपि भेदान्न सामान्येऽनियमस्यान्तर्भावः शिशुभिरपि श्रद्धेय इति बोध्यम् । न्यूनपदत्वाद्यन्तः प्रसरस्तु निरस्तः प्रदीपकृतैव । तद्यथा-नच न्यूनपदत्वेऽनभिहितवाच्यत्वे वाऽनुप्रवेशः । तादृशेऽर्थे विवक्षिते तयोरवकाशात् | अविवक्षिते त्वेतत्प्रसरात् । अतएवायमर्थदोषः । विवक्षितमात्रस्य पदान्तरेणाप्युपस्थितौ तस्य तादवस्थ्यात् । एवमितरेष्वप्यूह्यमिति । तमुदाहरति - यदिति । अत्र यस्य ब्रह्मणः य आभासस्तदेककृतमिति नियमो - ऽपेक्षितः। अन्यथा तदद्य कस्य मतमिति वक्ष्यमाणनिरतिशय सुखरूपतायास्तन्मात्रतानापत्तेः। तदभावात्तु तथात्वमिति लक्षणसमन्वयः । यथावा साहित्यदर्पणे - ' आपात सुरसे भोगे निमग्नाः किं नु कुर्वते' । अत्रापात एवेति नियमो वाच्य इति ॥ १६५ ॥ अथानियमपरिवृत्तं लक्षयति - त्यक्त इति । एवं चाप्रयोजकावधारणार्थत्वं निरवधारणोचिता तथाभिहितत्वं वा अनियमपरिवृत्तत्वमिति तल्लक्षणं ज्ञेयम् । तमुदाहरति - सीते त्वमिति । अत्र हे सीते, त्वं जगतीपतेस्त्रैलोक्यनाथस्य रामस्य संपदसीत्यनियमो वाच्यः । नोचेत्प्राणेश्वरी नासीत्यादिध्वननापत्तेः । तेन तदभावात्तथात्वमिति लक्षणसंगतिः । यथावा काव्यप्रकाशे - 'वाम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तमनसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः । अत्र शोण एवेति नियमो न वाच्य इति ॥ १६६ ॥ विशेषपरिवृत्तं लक्षयति- विशेषेति । यत्र विशेषो नोदितः नैव कथितः सः अर्थः विशेषपरिवृत्त इत्यन्वयः । तेनाभि'धेयविशिष्टबुद्धिप्रयोजकशून्यार्थत्वमिति तल्लक्षणं फलितम् । तमुदाहरति — कृष्ण
२४७