SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २४६ साहित्यसारम् । [ पूर्वार्धे सामान्यं च विशेषश्चानियमो नियमस्तथा । एतेषां प्रातिलोम्येन चतस्रः परिवृत्तयः ॥ १६४ ॥ नियमो वश्यता तस्याः परिवृत्तिर्विवर्जनम् । यदाभासकृतं ख्यादि सुखं कस्याद्य तन्मतम् ॥ १६५ ॥ न्तरेणेल्यर्थः । नूनत्वं नव्यत्वम् । अनीतः अप्रापितः । तुशब्द: कथितपदाद्वैलक्ष. ण्यद्योतनार्थः । एतादृशोऽर्थः अनवीकृतो भवतीति संबन्धः। तस्माद्भङ्गयन्तरप्रयुक्ताभिनवतारहितार्थकत्वमनवीकृतत्वमिति तल्लक्षणं पर्यवसितम् । एतेन यदुक्तं राकागमकृता काव्यप्रकाशीयं सोदाहरणमिदं दोषजातमनूद्य तत्तु कथितपदान्तर्गतमिति तत्परास्तम् । यद्यपि तच्च बहुशः प्रतिपाद्यस्यार्थस्यैकयोक्त्या कथनमिति तदुक्तैतल्लक्षणतोऽस्य तथात्वेऽपि निरुक्तलक्षणेन तदसाङ्कत्तिस्य शब्दादिनिष्टपौनरुक्त्यावच्छिन्नत्वेनास्य निरुक्तरीत्या ततः सुतरां विभिन्नत्वाच्च । उक्तं हि काव्यप्रदीपे-'अथैष कथितपद एवान्तभविष्यतीति चेन्न । पर्यायान्तरप्रयोगे भङ्गेरेकरूपतायामसांकर्यादिति । तमुदाहरति-किमिति । अत्र किमित्येकयैव भङ्गया त्रयाणामप्यपुमर्थत्वलक्षणोऽर्थो नाभिनवतां नीत इति लक्षणसंगतिः । यथावा काव्यप्रकाशे-'प्राप्ताः श्रियः सकलकामदुधास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् । संतर्पिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम्' इति । नन्वेतत्प्रतियोगी नवीकृतः कथमिति चेत्सोऽप्युदाहृतस्तत्रैव–'यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः । लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता' इति ॥ ३६३ ॥ ततो दोषान्तरं वक्तुमुपोद्धातमाह-सामान्यं चेति । अस्त्वेवमुद्देशः किं तेनेत्यत्राह-एतेषामिति । कथ्यन्त इति शेषः । तत्वं त्वग्र एव स्फुटीभविष्यतीति भावः ॥१६४ ॥ तत्र नियमपरिवृत्तरेवोक्तक्रमप्राप्तत्वात्प्रथमं तदवच्छिन्नं लक्षयतिनियम इति । अवश्यतेति च्छेदः । तस्याः अवश्यतायाः तस्मात्सावधारणोचिता तथोक्तत्वं सनियमपरिवृत्तत्वं बोध्यम् । तदुक्तं काव्यप्रदीपे 'तत्र सनियमपरिवृत्तः सनियमत्वेन वक्तुमुचितोऽनियमत्वेनोक्त' इति । ननु राकागमे तावदेतेन काव्यप्रकाशोक्तयोः सनियमानियमपरिवृत्तिदोषयोरप्यत्रैवान्तर्भावः आनेयमः सामान्यं सनियमो विशेषस्तत्परिवृत्तिस्तत्त्याग इति सामान्यविशेषपरिवृत्त्योरेव सनियमाद्यन्तर्भावः प्रतिपादितः । सयुक्तिकं चैतत् । नियमो ह्यन्ययोगव्यवच्छेदलक्षणमेवकारादिप्रतिबोध्यमवधारणमेव। विशेषोऽपि विशिष्टबुद्धिप्रयोजको विशेष. णाख्यः सजातीयव्यावर्तकः प्रसिद्ध एव । तथाचोभयत्रापि व्यावृत्तिफलकत्वतौल्यात् कथमनयोस्ताभ्यां सकाशाद्वैलक्षण्यमितिचेन । नियमविशेषयोवैलक्षण्यात् । तद्यथा त्वदुक्तरूप एव नियमस्तावत्खव्यवच्छेद्यान्योन्याभावप्रतियोगितावच्छेदकावच्छिन्नयावद्वस्तुव्यवच्छेदैकार्थक इति दीधितिकारादिसिद्धान्तः । तेन पार्थ एव धनुर्धर इत्यादौ पार्थान्यस्मिन् धनुर्धरत्वव्युदास एव बुध्यते नत्वन्यत्कि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy