________________
विषरत्नम् ६]
सरसामोदव्याख्यासहितम् ।
२४५
प्रत्यक्षेण सहाप्याह कण्ठाभरणकृत्रिधा। . विरोधं दैशिकं स्पष्ट कालिकं लौकिक तथा ॥१६० ॥ प्राचीसरस्वती काश्यां संफुलं कमलं निशि । औदुम्बरप्रसूनानामामोदः परमाद्भुतः ॥ १६१ ॥ विरोधेऽपि च लौकिक्या प्रसिद्ध्या समयः कवेः । पूज्य एव हरेः कीर्त्या गोपीनां चन्द्रिका सदा ॥ १६२॥ भङ्गन्यन्तरेण नृत्नत्वमनीतस्त्वनवीकृतः।
किं चित्रेण कलत्रेण किं पुत्रेणापि किं श्रिया ॥ १६३ ॥ शास्त्रविरोधोदाहरणमुक्तं प्राचीनस्तच्चिन्त्यम् । एतेन योगः प्रत्युक्तः' इति पार. मर्षसूत्रात्तस्य साक्षान्मोक्षप्रदत्वाभावादिति रहस्यम् ॥ १५९ ॥ एवं प्रत्यक्षविरोधमपि संग्रहीतुं तत्र संमतिं तत्प्रकारांश्चाह-प्रत्यक्षेणेति । तदुक्तं तत्रैव 'या देशकाललोकादिप्रतीपः कोऽपि दृश्यते। तमामनन्ति प्रत्यक्षविरोधं शुद्धबुद्धयः' इति ॥ १६० ॥ तत्र दैशिकं विरोधमुदाहरति—प्राचीति । तस्याः प्रयागादावपि गुप्तत्वेनैव सत्वात्काइयामसत्वाच्च तथात्वमत्रेति बीजम् । अथ कालिकं तमाह-संफुल्लमिति । तस्य दिवैव विकासादिह तत्वमिति तत्त्वम् । एवं लोकिकमपि तं प्रतिपादयति-औदुम्बरेति । लक्षणस्योभयोरपि तौल्यात्तदुक्तमतिमात्रमप्यत्रैवान्तर्भवति । यथावा काव्यप्रदीपे प्रसिद्धि विद्याविरुद्ध विचारे प्रसिदेर्लोककविसंबन्धित्वेन द्वैविध्यादाद्यनिरूपणावसरे----'इदं ते केनोक्त कथय कमलातङ्कवदने यदेतस्मिन्हेम्नः कटकमिति धत्से खलु धियम् । इदं तदुःसाध्यक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम्' । अत्र कामचक्रं लोके कविमार्गे वा न प्रसिद्ध मिति प्रपञ्चितम् ॥ १६१ ॥ ननु यदि लोकप्रसिद्धिकविप्रसिद्ध्योः परस्परं विरोधस्तदा करया आदर इयत्राह-विरोधेऽपि चेति । एवकारस्तु कवेरित्यत्र योज्यः । तथाच चेत्यपरं दोषेतरं शास्त्रार्थ कथयितुं निपातः । लौकिक्या प्रसिद्धया सह विरोधेऽपि कवेरेव समयः पूज्य इति संबन्धः । तमुदाहरति- हरेरिति शेषेण । सदा प्रतिनिशमित्यर्थः । य. थावा काव्यप्रकाशे-'सुसितवसनालंकारायां कदाचन कौमुदीमहसि सुदृशि स्वर यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशकं व नासि शुभप्रदः' । अत्रामूर्तापि कीर्तिज्योत्स्नावत्प्रकाशरूपा कथितेति लोकविरुद्धमपि कविप्रसिद्धेर्न दुष्टमिति । यथावा कुवलयाश्वविलासे—'यदीययशसाखिले धवलिते जगन्मण्डले स्वनाथ इति संभ्रमादुपगता पर पूरुषम् । निवेद्य सरसं वचः प्रियतमैकवेद्यं पुनस्तदीयविषमोत्तराद्विधुवधू परं लजते' इति । यद्यपीदं गुणरत्ने वक्तमुचितमथापि 'सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा। निर्वाहकैककार्यत्वे षोढा संगतिरिष्यते' इति वचनात्प्रसङ्गसंगत्यात्रैवोकमित्याकूतम् ॥ १६२ ॥ अथानवीकृतं लक्षयति-भङ्गयन्तरेणेति । रीत्य