________________
विषरत्नम् ६]
सरसामोदव्याख्यासहितम् ।
२५१
त्यक्तः पुनः स्वीकृतो यः स तथाभिमतः सताम् । नारी किं लालितुं योग्या सर्वस्यापि प्रियैव सा ॥१७६॥ अश्लीलो वीडनाद्यैयों गर्हणीयः स उच्यते । तावदेव दृढः स्तब्धो यावत्पातो न जायते ॥ १७७॥ वक्ष्येऽन्यानपि भोजोक्तांस्तान्सप्त परुषादिकान्। परुषोऽस्थानरोषो यो रुद्न्तं ज्वालयाकम् ॥१७८॥ अप्रस्तुतो रसो यत्र विरसोऽसौ निगद्यते। वृन्दां शोकाकुलां विष्णुः संश्लिष्य स्मरविह्वलः ॥ १७९ ॥ उपमा हीनताधिक्यसाम्याभावाप्रसिद्धितः ।
हीनोपमादयो बोध्याश्चत्वारो विबुधैः क्रमात् ॥ १८० ॥ सखेदोऽहं मोहं श्लथय कथय क्वेन्दुवदना' । अत्र विरहिप्राणदमनेत्यनुवादः । कथय केन्दुवदनेति विधिविरुद्ध इति । भसलाः भ्रमराः । हंसः श्रेष्ठ इत्युद्योतः ॥ १७५ ॥ त्यक्तपुनःस्वीकृतं लक्षयति-त्यक्त इति । अत्र वाक्यार्थस्यैवान्यत्वादेकस्मिन्नेव वाक्ये विशेषणान्तरस्य समाप्युत्तरमनुपादानाच न समाप्तपुनरात्तसाङ्कर्यम् । तमुदाहरति-नारीति । इहाद्यचरणेन यस्त्यक्तः सत्कारलक्षणोऽर्थः स एवान्त्येन खीकृत इति तथात्वमिति भावः ॥ १७६ ॥ एवमश्लीलं लक्षयति-अश्लील इति । वीडनाद्यैः। लज्जोत्पादनाद्यैरित्यर्थः । आद्यपदेनामङ्गलाग्रहः । गर्हणीयः निन्द्यः सः अर्थः अश्लील उच्यत इति संबन्धः । तमुदाहरति-तावदेवेति । स्तब्धः स्तम्भाख्यगर्वविशेषवानित्यर्थः । दृढः बलवान् । स्पष्टमन्यत् ॥ १७७ ॥ अथ सरस्वतीकण्ठाभरणोक्तानन्यानप्यर्थदोषान् संगृहीतुं प्रतिजानीते-वक्ष्य इति । तदुक्तं तत्रैव । 'परुषं विरसं तथा । हीनोपमं भवेच्चान्यदधिकोपममेव च । असदृक्षोपमं चान्यदप्रसिद्धोपमं तथा। निरलंकारम्' इति । तमेव लक्षयति-परुष इति पादेन । रौद्ररसव्युदासार्थमस्थान इति । तेन यः अस्थानरोषः स परुष इत्यध्याहृयान्वयः । श्लेषेण पुरुषोऽपीत्याशयः। एवंचास्थानरोषत्त्वं तत्वं बोध्यम् । तमुदाहरति-रुदन्तमिति चरमचरणेन । हे कान्ते, रुदन्तमर्भकं ज्वालय दहेति कस्यचिच्चण्डस्योक्तिः । अत्रार्भकस्य कोपास्थानत्वात्तत्र तत्सत्वात्तथात्वं स्पष्टमेव ॥ १७८ ॥ एवं विरसं लक्षयति-अप्रस्तुत इति । प्रस्तुतरसविरुद्ध इत्यर्थः । एवंच प्रस्तुतरसविरुद्ध रसवदर्थत्वं विरसत्वं पर्यवसन्नम् । तेनानुचितालम्बिनि रसाभासे नातिप्रसङ्गः । तमुदाहरतिवृन्दामिति । अत्र शोकेति विशेषणात्प्रस्तुतो रसः करुणः संश्लिष्येत्यादिना तु तद्विरुद्धः शृङ्गार इति वाक्यार्थस्य तद्वत्त्वेन विरसत्वं बोध्यम् । विष्णुपदं साभिप्रायम् । तेनालंकारप्राधान्यानास्य रसदोषत्वमिति । यथावा कण्ठाभरणे-'तव वनवासोऽनुचितः पितृमरणशुचं जहीहि किं तपसा। सफलय यौवनमेतत्सममनुरक्तेन सुतनु मया' इति ॥ १७९ ॥ हीनोपमादिदोषचतुष्टयमपि हेतूक्तिच्छलेन क्रमालक्षयति-उपमेति। हीनता च आधिक्यं च साम्यभावश्च अप्रसिद्धिश्चेति।