SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सरसामोद व्याख्यासहितम् । अर्थोऽपुष्टोऽन्यलभ्यत्वादप्रयोजकतोऽपि च । शब्दानः शरत्तीवः प्रोदितोऽर्कस्तमोऽहरत् ॥ १५० ॥ बुद्ध्यारूढो न शीघ्रं यः स कष्ट इति कथ्यते । सीमान्त एव संपन्नः कान्तासीमन्तचिन्तनात् ॥ १५१ ॥ यावत् । तत्तद्दोषः रसदोषः तद्भिन्नार्थदोष इति ईर्यते शास्त्रादौ कथ्यत इति योजना । एवंच विपरीतोक्तिप्रयोज्याना खाद्यतापन्न संमतैकार्थकत्वं रसान्योन्याभावप्रतियोग्यवच्छिन्नत्वे सति तत्त्वं रसैकावच्छिन्नत्वेन तत्वं चेति क्रमादर्थसामान्यस्य रसेतरार्थस्य रसस्य च दोषाणां लक्षणानि ज्ञेयानि । तदुक्तं काव्यप्रदीपे - ‘यत्र विवक्षित एवार्थोऽन्यथाभिधाने दुष्यति सोऽर्थदोष:' इति ॥ १४९ ॥ अथ प्राप्तावसरत्वात् —'अर्थो पुष्टः कष्टो व्याहतपुनरुक्तदुः क्रमग्राम्याः । संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च । अनवीकृतः सनियमानियमविशेषाविशेषपरिवृत्ताः । साकाङ्क्षोऽपदमुक्तः सहचरभिन्नः प्रकाशितविरुद्धः । विध्यनुवादायुक्तस्त्यक्त पुन:स्वीकृतोऽश्लील:' इति काव्यप्रकाशादिमूलानुसारेण प्रथममपुष्टार्थाख्यं रसेतरार्थदोषं लक्षयति—अर्थ इति। अन्येति । अर्थसमाजावाप्यत्वादित्यर्थः । अप्रयोजकतः भावप्रधानो निर्देशः । अप्रयोजकत्वाच्चेतियावत् । शब्देति । शब्देनोपात्तुमयोग्य इत्यर्थः। एतादृशोऽर्थः वाक्यार्थः अपुष्टः एतन्नामक दोषग्रस्तो ज्ञेय इत्यन्वयः । तथाचान्यलभ्यत्वादिना शब्दानर्हत्वे सति संमतैकार्थमपुष्टार्थकत्वमिति निष्कर्षः । अस्यैव भोजराजेन व्यर्थत्वमुक्तं सरखतीकण्ठाभरणे - 'व्यर्थमा हुर्गतार्थं यद्यच्च स्यान्निष्प्रयोजनम्' इति । विस्तरस्तु प्रदीपादौ ज्ञेयः । तदुदाहरति- शरदित्यायुत्तरार्धशेषेण । अत्र शरत्तीव्रवमप्रयोजकम् । तद्विनापि तत्र तमःशामकत्वस्य नैसर्गिकत्वात् । तथा प्रोदितत्वमपि तमोहरणक्रियान्यथानुपपत्त्यार्थसमाजैकसिद्धमित्यन्यलभ्यमेवेति तादृशो वाक्यार्थः शरदादिशब्दैरकथ्य एवेति लक्षणसंगतिः । यथावा चन्द्रालोके - 'अपुष्टोऽर्थो विशेष्ये चेन्न विशेषो विशेषणात् । विशन्ति हृदये कान्ताकटाक्षाः खञ्जनत्विषः' इति ॥ १५० ॥ ततः कष्टं लक्षयति - बुद्ध्यारूढ इति । तमुदाहरति - सीमान्त एवेति । अत्र कान्ता - सीमन्तचिन्तनात् यावत्स्त्रीगुणविशिष्टायाः कस्याश्चिद्रमण्याः केशसंनिवेशविशेपानुसंधानधारापराहतत्वादित्यर्थः । सीमान्त एवं आयुर्मर्यादाप्रान्तभाग एवेति यावत् । संपन्नः सिद्धः अस्माकमिति शेषः । तत्रापि स्वप्नेऽपि सा न लब्धा नच साधितः परलोकोऽपीत्यत्र कैव कथा कैवल्यस्येति धिग्धिग्विषयानुशयमित्याशय इत्याकारकोऽर्थस्तु शीघ्रं बुद्ध्यारूढो नैवेति तथात्वम् । यथावा साहित्यदर्पणे - 'व त्येतदर्पतिर्नतु घनो धामस्थमच्छं पयः सत्यं सा सवितुः सुता सुरसरित्पूरो यया लावितः । व्यासस्योक्तिषु विश्वसत्यपि न कः श्रद्धा न कस्य श्रुतौ न प्रत्येति तथापि मुग्धहारेणी भाखन्मरीचिष्वपः' । अत्र यस्मात्सूर्यो वृष्टेर्यमुनायाश्च प्रभवस्तस्मात्तयोर्जलमपि सूर्यप्रभवं ततः सूर्यमरीचीनां जलप्रयोजकहेतुत्वमुचितम् । विषरत्नम् ६ ] २१ २४१
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy