________________
२४०
साहित्यसारम् ।
[ पूर्वार्धे इति सर्वेऽपि पञ्चाशद्वाक्यदोषा निरूपिताः। अर्थदोषानथो वक्ष्ये पूर्वाचार्योक्तरीतितः ॥ १४५ ॥ शक्यो लक्ष्यस्तथा व्यङ्गय इत्यर्थस्त्रिविधो मतः। व्यङ्गय एव रसस्तत्र त्रिविधे वस्त्वलंकृती॥१४६॥ तत्र प्रागुक्तरीत्यैव काव्यद्वैविध्यसिद्धितः। अर्थदोषा अपि द्वेधा रसतद्भिन्नगत्वतः॥ १४७ ॥ तद्भिन्न एव कथ्यन्ते तत्र ते प्रथमं मया। सामान्येनैव सर्वेऽपि ग्रन्थगौरवभीतितः ॥ १४८॥ यत्राभिमत एवार्थोऽन्यथोक्तौ निन्दितो भवेत् ।
सोऽर्थदोषो रसादिस्थस्तत्तदोष इतीर्यते ॥ १४९ ॥ भिधायार्थदोषोपपादनं प्रतिजानीते-इतीति ॥ १४५ ॥ ननु वर्णादिभेदेन व्यक्तं शब्दस्य त्रैविध्यवदर्थस्यापि भवन्मते किं तथात्वमेवोत तार्किकादिवदन्यविधत्वमपीत्याशङ्कयाद्यपक्षमेवाङ्गीकुर्वस्तत्रैविध्यमुद्दिशति-शक्य इत्यर्धेन । तत्त्वं तु क्रमेण शक्त्यादिप्रतिपाद्यत्वमेव । अत्रैव सर्वेषामपि तत्तद्वाद्यभिमतानामर्थानामन्तर्भावो बोध्यः । मतः आलंकारिकाणां संमत इत्यर्थः । यद्वा सर्वेषामपि तैर्थिकानामभिमत इति यावत् । तत्र को वा शक्यादिरिति तद्विशेषाकाझायामाह-व्यङ्गय एवेत्युत्तरार्धेन । रसस्य शृङ्गारादेर्व्यञ्जनामात्रगम्यत्वं तूकमधस्तात्पञ्चमरत्न एव । त्रिविधे शक्यत्वादिभेदेन त्रिप्रकारके अपि भवत इत्यन्वयः । वस्तुत्वं कथात्वं अलंकृतित्वं तूपमाद्यन्यतमत्वमिति सामान्यतस्तलक्षणं बोध्यम् ॥ १४६ ॥ ननु भवत्वेवं तद्यवस्था तथापि प्रकृते किमागत. मित्यत आह-तत्रेति । तत्र निरुक्तव्यवस्थायां सत्यां अर्थस्य रसतदितरभेदेन द्वैविध्यलाभादित्याशयः । प्रागिति । प्रथमरत्नोक्तभङ्गायैवेत्यर्थः । काव्येति । सरसवचित्रत्वभेदेन काव्यस्य द्विप्रकारकत्वसिद्धेरिति यावत् । अथेति । रसेति । द्वेधा भवत इति संबन्धः ॥ १४७ ॥ ननु तर्हि किं प्रथम रसदोषान्कथयसि तथा चेत्पूर्वाचार्योक्तेत्यादिप्रतिज्ञाविरोधः काव्यप्रकाशकारादिभिस्तैः सामान्यतोऽर्थदोषाभिधानानन्तरमेव रसदोषाभिधानादित्यत्राह-तद्भिन्न एवेति । तत्र रसतद्भिन्नगदोषयोर्मध्य इत्यर्थः । मया तद्भिन्न एव । रसेतरार्थविषय एवेति यावत् । ते दोषाः सर्वेऽपि सामान्येनैव वस्तुत्वालंकृतित्वाख्याभेदं विना केवलं रसेतरार्थत्वसामान्येनैवेत्यर्थः । तत्र हेतुः-ग्रन्थेति । प्रथमं कथ्यन्त इति संबन्धः ॥ १४८ ॥ ननु किं नामार्थदोषत्वमित्याशय सामान्यतस्तं लक्षयति-योति । अभिमत एव कवेः संमत एव । अन्यथोक्तौ विपरीताभिधाने । निन्दितः सहृदयानास्वाद्यत्वप्रयोजकत्वावच्छिन्न इत्यर्थः । सोऽर्थदोषः स्यादित्यध्याहारेणान्वयः । तथा स एव रसादिस्थः । आदिना तद्भिन्नकूटत्वावच्छिन्नयोर्वस्त्वलंकृत्योर्ग्रहः । शृङ्गारादिरसवस्त्वादितदितरार्थनिष्ठः सन्निति