________________
विषरत्नम् ६ ]
सरसामोदव्याख्यासहितम् ।
पादाद्यारम्भ एकाचा निपातेन नञाहते । संनिपातं गुरुः शंभुचेमे वन्द्योऽस्ति सर्वदा ॥ १४४ ॥ अपार्थमेतन्नामकं उक्तमर्थदोषत्वेन प्रतिपादितमिति यावत् । तदीयलक्षणवाक्यं सद्य एवोपनिबद्धम् । तदुदाहरति-घट इति । यथावा कण्ठाभरणे – 'जरद्रवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि । तं ब्राह्मणी पृच्छति पुत्रकामा राजनुमायां लशुनस्य कोऽर्थः ' इति ॥ १४३ ॥ अथ सर्वानुभवसिद्धमपि प्राचीनैरसंगृहीतं वाक्यदोषान्तरं स्वसंमतत्वेन संनिपाताख्यं लक्षयतिपादादीति । आदिना चूर्णिकादिः । तस्य य आरम्भस्तस्मिन् । श्लोकपादारम्भे गद्यारम्भे चेत्यर्थः । नञाद्युते । एवंच ' न खलु न खलु बाणः' इत्यादौ नातिव्याप्तिः । उपलक्षणमिदं निषेधकत्वावच्छिन्नयावदेकाच्निपातानाम् । तेन 'मा निषाद -' इत्यादौ नातिप्रसङ्गः । अनादि ' किं खलु रत्नैरेतैः किंपुनरभ्रायितेन वपुषा ते । सलिलमपि यन्न तावकमर्णव वदनं प्रयाति तृषितानाम्' इति । भामिनीविलासीये – 'हे रोहिणि त्वमसि शीलवतीषु धन्या एनं निवारय पतिं सखि दुर्विनीतम् | जालान्तरेण मम वासगृहं प्रविश्य श्रोणीतटं स्पृशति किं कुलधर्म एषः' इति । शृङ्गारतिलकीये- 'रेरे चातक सावधानमनसा मित्र क्षणं श्रूयताम्' इत्यादावन्यत्र ' हा हन्त हन्त नलिनीं गज उज्जहार' इत्यादावन्यत्र च पद्ये प्रोक्ताः किमादयो ज्ञेयाः । एकाचा एक एव अच् यस्मिन्निति तथा तेनेत्यर्थः । एतेन 'यत्रासौ वेतसी पान्थ' इत्यादौ न दोषः । एतादृशेन निपातनेन 'चादयोऽसत्वे' इति सूत्रेण विहितनिपातसंज्ञेन चादिवर्णेनेत्यर्थः । सनिपाताख्यं वाक्यदूषणं स्यादिति योजना । नच प्रागुदाहृते यदूर्ध्वं यत्पदं योग्यमित्याद्यक्रमाख्यदोषव्याख्यायां चादीनां समुच्चेयादनन्तरमित्याद्युद्द्योतवचने खति पादायारम्भे नञादिकं विनैकाज्निपातप्रयोगात्मकस्यास्य संनिपातदोषस्याक्रमदोष एवान्तर्भावान्न पृथगुपन्यासो युक्त इति वक्तव्यम् । निरुक्तवाक्यस्यानन्तर्यादि नियममात्र विधायकत्वात्प्रारम्भप्रयोगनिषेधस्य तत्र क्वाप्यनुपलम्भात्प्रकृतोदाहरणे तु तद्रीत्या चकारस्य समुच्चेयाव्यवहितत्वेन विन्यासेऽपि पादारम्भस्थत्वेन सकलसहृदयहृदयोद्वेजकत्वाच्च । नाप्येवं चेत्त्वयैवायमत्रैव 'काव्यादिखार्थमन्यार्थं चाथ स्वार्थचतुर्विधः' इति प्रथमरने कथं दोषः परिहरणीय इति वाच्यम् । तस्य पद्यस्य शास्त्रार्थमात्र थकत्वेन काव्यत्वाभावान्निरुक्तदोषस्य काव्यैकविषयत्वाच्चेति दिक् । तथाच निषेधकत्वावच्छेदकावच्छिन्नादिकं विना पादाद्यारम्भैकानिपातत्वं संनिपाताभिधवाक्यदोषत्वमिति तल्लक्षणं फलितम् । तदुदाहरति — गुरुरित्याद्युत्तरार्धशेषेण । अत्र चकारस्य तथात्वालक्षणसमन्वयः । यथावा धनंजयव्यायोगे — 'अन्याङ्गना परिहृतिप्रणयेन कीर्त्या चालिङ्गितो धवलया पलितच्छलायः । द्वन्द्वाहवप्रकटनिर्जितजामदग्यो देवव्रतः पृथुयशाः स पितामहो नः' इति । अत्र चालिङ्गित इति द्वितीयपादारम्भे च इति एकाचा निपातेन तथा ॥ १४४ ॥ एवं वाक्यदोषानुपपाद्येदानीं तत्संख्याम
२३९