SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २३८ [ पूर्वार्धे साहित्यसारम् । किंच प्रतापरुद्रीये प्रोक्तं संबन्धवर्जितम् । चिरं विचारजे ज्ञाने तरुण्यास्ये हता वयम् ॥ १४२ ॥ निराकाङ्क्ष तु सर्वेषां पदानां यद्यसंगतिः । उत्तमाभरणेऽपार्थमिदमेव घटः पटः ॥ १४३ ॥ 1. भावाद्वस्तुमात्रप्रधानत्वच्च । परम्परया रसवत्त्वस्य रसगङ्गाधरादावनादृतत्वादप्रयोजकत्वाच्च । तस्मात्सामान्यतः सौकुमार्य राहित्यविशिष्टवाक्यत्वमेव कठोरत्वमिति तल्लक्षणं पर्यवसितम् । यदाहुराभरणकाराः - 'सौकुमार्यविपर्यासात्कठोर उपजायते । यथा 'असितर्तितुगद्रिच्छित्स्वःक्षितां पतिरद्विदृक् । अभिद्भिः शुभ्रदृग्दृष्टैर्द्विषो जेघ्नीयिषीष्ट वः' । अत्रातिकठोरत्वादसौकुमार्ये सुप्रतीतमेवेति । अस्य पद्य - स्यायमर्थः - असिते मलिने पापे विषये 'ऋतिर्जुगुप्साकल्याणगतिस्पर्धासु' इति हैमादृतिर्जुगुप्सा यस्य तस्य कश्यपस्य तुक् ' तुक् । तोकम्' इति निघण्टोः पुत्र इत्यर्थः । एतादृशः । तथा । अद्रीति । पर्वतपक्षच्छित् तथा स्वःक्षितां स्वर्गपालकानां देवानां पतिः । तथा अद्विदृक् सहस्राक्षः एतादृशः इन्द्रः अमिद्भिः अ इव विष्णुरिव पालकत्वेन मिमत इति तथा तैः स्निग्धैः ईदृशैः । शुभ्रेति । शुद्धदृष्टिविलोकनैः वः युष्माकं द्विषः शत्रून् जेन्नीयिषीष्ट अत्यर्थ पुनः पुनर्वा वध्यादिति ॥ १४१ ॥ अथ मतान्तरे दोषान्तरमप्युक्तमिति तदप्यत्र संगृह्णाति — किंचेति । समुच्चायकौ निपाताविमौ । प्रोक्तं कथितमस्तीत्यर्थः । तल्लक्षणं तु निराकाङ्खत्वरूपं प्रसिद्धमेव । नच काव्यप्रकाशरीत्या वक्ष्यमाणे साकाङ्क्षेऽर्थदोषेऽतिव्याप्तिः । तस्यार्थसामान्यसापेक्षत्वेन संबन्धैकसापेक्षत्वाभावादस्य तु तन्मात्रसापेक्षत्वाच्च । नवा सरखतीकण्ठाभरणोक्त 'समुदायार्थशून्यं यत्तदपार्थं वचः स्मृतम्' इत्यभिहितलक्षणेऽपार्थाह्वेऽर्थदोषेऽतिप्रसङ्गः । अस्य संबन्धमात्रसाकाङ्क्षत्वेन समुदायार्थशून्यत्वाभावात् । वस्तुतस्तु वचः पदेन तस्यैव वाक्यदोषत्वापत्तिर्दुर्वारा । नापि वचः पदमर्थे लाक्षणिकम् । लक्षणे तादृक्पदप्रयोगानौचित्यात्खायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयुञ्जामह इति न्यायेनाप्रयोजकत्वादतिप्रसङ्गाच्च । एवं चात्र संबन्धमात्रसापेक्षत्वं तल्लक्षणत्वेन फलितमिति ध्येयम् । तदुदाहरति - चिरमिति । अत्र वयं चिरं नतु क्षणमात्रं तत्रापि विचारजे शास्त्रीयविवेकजन्ये नत्वापाति के एतादृशे ज्ञाने सत्यपि तरुण्यास्ये युवतिवदने विषये हताः तदीक्षणोत्तरकालं अनुरागेण पराभूता इत्यन्वये विवक्षिते संबन्धघटकस्य सत्यपीति पदद्वन्द्वस्याभावाल्लक्षणसमन्वयः । नन्वेवं चेन्यूनपदत्वेनैवास्य गतार्थत्वम् । न । अस्य संबन्धमात्रघटकपदापेक्षत्वात्तस्य तु प्रकृतोपयोग्यर्थकपदसापेक्षत्वाच्चेति दिकू । उक्तं हि प्रतापरुद्रे - 'संबन्धवर्जितं तत्स्याद्यत्रेष्टेनान्वयो हतः' इति ॥ १४२ ॥ एवं प्रसङ्गप्राप्तं निराकाङ्क्ष लक्षयति — निराकाङ्क्ष त्विति । तुशब्दः पूर्ववैलक्षण्यावद्योती । सर्वेषामिति । तेन न पूर्वोक्तसंकरः । तत्र संमतिमाह — उक्तमिति । आभरणे । सरस्वतीकण्ठाभरण इत्यर्थः । इदमेव
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy