SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६ ] सरसामोदव्याख्यासहितम् । शैथिल्यं श्लेषराहित्यादेव बोध्यं बुधैर्गिरः। शारदी कौमुदी गोदामवदातीकरोत्यलम् ॥ १३९॥ समताया विपर्यासाद्वैषम्यमिति गीयते। मिलिन्दास्तुन्दिलानन्दाच्छादयन्त्युश्छतच्छदम् ॥१४०॥ विरहात्सौकुमार्यस्य कठोरत्वं विदां मतम् । भार्तिधक्त्विड्डुन्मादप्रोद्दीपनचणोऽवतात् ॥ १४१॥ अथ किं तच्छैथिल्यमित्याकाङ्क्षायां तल्लक्षयति-शैथिल्यमिति । बुधैः श्लेषराहित्यादेव गिरः वाक्यस्य शैथिल्यं एतन्नामकं वाक्यदोषजातं बोध्यमित्यन्वयः। तदुदाहरति-शारदीति । अत्र बहूनां पदानामेकपदत्ववदवभासने हेतु: श्लोषनामा कश्चिच्छब्दगुणः । सतु नास्त्येवेति बन्धस्य शैथिल्यं स्फुटमेव । तदुक्तं कण्ठाभरण एव–'विपर्ययेण श्लेषस्य संदर्भः शिथिलो भवेत्' । यथा-'आलीयं मालतीमालालोलालिकलिला मनः । निर्मूलयति मे मूलात्तमालमलिने वने। अत्र भिन्नानामपि पदानामेकपदताप्रतिभासहेतुरनतिकोमलो बन्धविशेषः । श्लेषस्तद्विपर्ययेण शब्दप्रधानोऽयं श्लेषविपर्यय इति ॥ १३९ ॥ एवमादिपदद्योतितयोर्वैषम्यकठोरत्वयोर्मध्ये प्रथमं लक्षयति-समताया इति । बुधैरित्यनुकृष्य योज्यम् । तदुदाहरति-मिलिन्दा इति । भ्रमरा इत्यर्थः । तुन्दिलेति । तुन्दिलः परिपुष्टः आनन्दो मकरन्दपानजन्यः प्रमोदो येषां ते तथा सन्त इत्यर्थः । एवंच तृप्तिजन्यताटस्थ्यादेव । उदिति । उत् विकसितत्वेनोत्कृष्टं यत् शतच्छदं 'शतपत्रं कुशेशयम्' इत्यमरात्कुशेशयं तदित्यर्थः । छादयन्ति स्वस्थतया निजावासेनाच्छादयन्तीति योजना । अत्र पूर्वचरणस्य मृदुबन्धत्वेनोत्तरचरणस्य गाढबन्धत्वेन समतावैपरीत्याद्वैषम्यं स्पष्टमेव । तथाचोक्तमाभरण एव–'भवेत्स एव विषमः समताया विपर्ययात्' इति। यथा-'कोकिलालापवाचालो मामेति मलयानिलः । उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः' । अत्र पूर्वार्धस्य मृदुबन्धत्वादुत्तरार्धस्य च गाढबन्धत्वात्समबन्धेषु विषममिति विषमो नाम शब्दप्रधानः समताविपर्ययो दोष इति ॥ १४० ॥ ततः क्रमागतं कठोरत्वं लक्षयति-विरहादिति । पक्षद्वयेऽप्यर्थोऽतिरोहित एव। तदुदाहरति-भार्तीति। भा प्रभा तया आर्तिः पीडा यस्य तत्तम इत्यर्थः । तद्दहतीति तथा। सूर्य इति यावत् । तस्य या त्विट कान्तिस्तस्यां रुटू क्रोधो येषां चकोरकैरवादीनां ते तथा तेषां य उन्मादः प्रोत्साहजः संमदस्तस्य यत्प्रकर्षणोद्दीपनं उत्तेजनं तत्र चणश्चतुरः शरद्राकासुधाकर इति यावत् । अवतात् रक्षतु । इह विरहिण्यादीनां तु रक्षणस्य प्रार्थनासहस्रेऽप्यसंभवादन्यस्यैतस्मात्पीडाभावादाधिभौतिकादिपीडातः सकलजगत्पालनस्येश्वरमात्रतन्त्रत्वाच्च निरुक्तचकोरादीनेव तथा कानिचिद्धान्या. दीन्यपि खहिमसंकोचेन तत्पीडातः पालयत्वित्येवाशीर्युक्तेत्याकूतम् । एतेनास्य रसानुचितवर्णात्मकप्रतिकूलवर्णाख्यवाक्यदोषात्पार्थक्यम् । प्रकृते रसलेशस्याप्य
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy