________________
२३६
साहित्यसारम् ।
[ पूर्वार्धे न्यूनोपमं तदाद्यं स्यादधिकोपममन्तिमम् । भूनेत्रसुभगं वकं सखञ्जनयुगाब्जवत् ॥ १३५ ॥ राधिके तव सीमन्तो भाति सिन्दूरपूरितः । इन्द्रनीलशिलासुप्तोऽमृतपस्तक्षको यथा ॥ १३६ ॥ अशरीरं क्रियाहीनं ब्रह्म कूटस्थमद्वयम् । प्रतापरुद्रवाचा स्यादेतदेव त्वनन्वयम् ॥ १३७ ॥ यदरीतिमदाख्यं तच्छैथिल्यादिभिदा त्रिधा । गुणहीनत्वतः शब्दप्राधान्याद्वाक्यदूषणम् ॥ १३८॥
तत्राद्यमुदाहरति-भूनेत्रेत्यर्धेन । अत्र नेत्रायुपमानसत्वेऽपि भ्रुवोस्तदभावाल्लक्षणसमन्वयः ॥ १३५ ॥ अन्त्यमुदाहरति-राधिके इति । अत्र तक्षकस्यारुणवर्णत्वप्रसिद्धेस्तावतैव निरुक्तसीमन्तोपमानत्वसिद्धात्विन्द्रनीलेल्यादिविशेषणद्वयस्याधिकत्वादधिकोपमानत्वं ज्ञेयम् । यद्यपि सीमन्तस्य संयमितकेशमध्यदेशविशेषत्वेनाद्यविशेषणस्यार्थिकसार्थक्येऽपि चरमस्य निष्प्रयोजनतैवेति हृदयम् । नचेदं दोषद्वयं न्यूनाधिकपदाभिधप्रागुक्तदोषद्वयान्तर्भूतमिति वाच्यम् । तस्य पदमात्रविषयत्वादस्य तूपमैकतन्त्रत्वाच्चेति दिक् ॥ १३६ ॥ अथाशरीरं लक्षयति-अशरीरमिति चरणेन । तदुक्तं कण्ठाभरण एव-'क्रियापदविहीनं यदशरीरं तदुच्यते' इति । तदुदाहरति-ब्रह्मेति । पादेनैव । प्रथमपादीयपदद्वयमत्रापि विशेषणीयम् । अशरीरं समष्टिव्यष्टिशूलादिदेहविहीनमित्यर्थः । अतएव क्रियेति । निष्क्रियमिति यावत् । अतएव कूटस्थं निर्विकारम् । अतएव अद्वयं यावदृश्यप्रतियोगिकत्रैकालिकात्यन्ताभावाधिष्ठानमित्यर्थः । एतादृशं ब्रह्मास्तीति क्रियापदमध्याहृत्य संबन्धनीयम् । अस्यैव मतान्तरेण संज्ञान्तरमप्याह-प्रतापेति । इदं प्रकृत्य तत्रैवोक्तम् । एतदेवानन्वयाख्यं दूषणमिति । पक्षे प्रतापे विश्वनियामकत्वाद्रुद् इव रुद्रो वेदस्तद्वाचा 'यतो वाचोनिवर्तन्ते' इत्यायुपनिषद्गिरेत्यर्थः। अनन्वयं शक्तिवृत्त्या वेदान्तसमन्वयरहितमिति यावत् ॥१३७॥ ततः क्रमप्राप्त षष्ठमरीतिमत्तावच्छब्दार्थोभययोगप्राधान्यादिप्रपञ्चेन नवविधमपि प्रकृते शब्दैकप्रकरणत्वेन तदितरानुपयोगात्तस्य प्रकृतोपयोगित्रैविध्यमुद्दिशतियदरीतिमदिति । शैथिल्यादीति । शैथिल्यं वक्ष्यमाणलक्षणं ज्ञेयम् । आदिना तथाविधयोरेव वैषम्यकठोरत्वयोर्ग्रहः । ननु किमिदं भावरूपं दूषणत्रयमुताभावरूपमित्याशङ्कय ताम्रादावौज्ज्वल्याभावात्कलङ्कवदभावप्रयोज्यभावरूपमेवेति द्योतयितुं तत्र श्लेषादिगुणप्रतियोगिकमभावमेव हेतुत्वेनाह-गुणेति । इदं शैथिल्येत्यतः प्राग्योज्यम् । नन्वर्थदोषेष्वेवास्त्यस्य संग्रह इत्याशङ्कयाहशब्देति । शब्दमुख्यत्वेनेत्यर्थः । इदं तु गुणेत्यस्यापि पूर्व संबन्धनीयम् ॥१३८॥