SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । ____२३५ अमतोऽर्थः परो यस्योपमादिस्तत्तथामतम् । नारी पिशाचिकोपैति मौक्तिकास्थिविभूषिता ॥ १३१ ॥ उक्ताः सरस्वतीकण्ठाभरणेऽन्येऽपि षट् तु तान् । भिन्नलिङ्गादिकान्दोषानत्रानुक्रमतो ब्रुवे ॥१३२॥ उपमा भिन्नलिङ्गा चेञ्चेद्भिनवचना तथा । यत्र तद्भिन्नलिङ्गं स्यात्स्याद्भिन्नवचनं क्रमात् ॥ १३३॥ मुखं चन्द्र इवेदं ते कमलानीव लोचने । न्यूनं तथाधिकं यत्र तूपमानं विशेषणैः ॥ १३४ ॥ श्रीगुरुरेव तथा शंकरश्च शिवोऽपि सेव्य इत्यन्वयो विवक्षितः । सतु चकारस्य समुच्चेयायवहितत्वेन नैव प्रतीयत इति लक्षणसंगतिः । यथावा कुमारसंभवे'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी' इति । अत्र त्वंशब्दोत्तरमेव द्वितीयश्चकारोऽपेक्षितः ॥ १३० ॥ एवममतपरार्थ लक्षयति-अमत इति । यस्य उपमादिः उपमारूपकादिः परः द्वितीयः अर्थः अमतः परस्परविरोधादिना असंमत इत्यर्थः । तत् तथा अमतपरार्थ मतं अभिमतमिति यावत् । उक्तहि काव्यप्रदीपे । अमतत्वं च-'ज्ञेयौ शृङ्गारबीभत्सौ तथा वीरभयानको। रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः' इत्यायुक्तदिशा प्रकृतरसविरुद्धरसव्यञ्जकत्वमिति । तदुदाहरति-नारीति । अत्र लुप्तोपमारूपकविशेषान्यतरालंकारेण व्यञ्जितस्य परस्य बीभत्सरसरूपस्यार्थस्य शक्येन शृङ्गारेण साकं विरुद्धत्वाल्लक्षणसंगतिः । यथावा रघुवंशे–'रामन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा' इति ॥ १३१ ॥ अथ मतान्तरेऽन्यदपि दोषजातं वाक्य एवोक्तमिति तदप्यत्र संगृह्यत इत्याह-उक्ता इति । अन्यपीति । उक्तेभ्य इतरेऽपि षट् वाक्यदोषा इति शेषः । तु पुनः अहमित्यध्याहारः । भिन्नेति । एतादृशान् तान्दोषान् अनुक्रमतः ब्रुवे वक्ष्यामीति संबन्धः ॥ १३२ ॥ ननु के ते दोषा इत्याकाङ्क्षायां 'यत्रोपमा भिन्नलिङ्गा भिन्नलिङ्गं तदुच्यते । भवेत्तद्भिनवचनं यद्भिन्नवचनोपमम्' इति । तदुक्तलक्षणे प्रथमं भिन्नलिङ्गवचनं लक्षयति-उपमेति । अत्र लिङ्गवचनयोभिन्नत्वं तूपमेयापेक्षया विपरीतलिङ्गादिमत्त्वमेवेति भावः । स्फुटमेवान्यत् ॥ १३३ ॥ ते उदाहरति-मुखमित्यर्धेनैव । हे प्रेयसीति शेषः । अत्र क्रमेण चरणद्वयेऽप्युपमायां भिन्नलिङ्गत्वं भिन्नवचनत्वं चोपमेयापेक्षया लिङ्गादिवैपरीत्यास्पष्टमेवेति लक्षणसमन्वयः । यथावा कण्ठाभरणएव–'अविगाह्योऽसि नारीणामनन्यमनसामपि । विषमोपलभिन्नोमिरापगेव तितीर्षतः' । अत्रापगेव खमविगाह्योऽ सीति लिङ्गभेदः । नारीणामुत्तितीर्षत इति लिङ्गभेदो वचनभेदश्च । तदिदं द्वयोरेकमेवोदाहरणमिति । एवं न्यूनाधिकोपमे अपि लक्षयति-न्यूनमिति॥१३४॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy