________________
२३४ साहित्यसारम् ।
[ पूर्वार्धे यदुवं यत्पदं योग्यं ततोऽन्यत्र तदक्रमम् ।
सेव्यः श्रीगुरुरेवैकः शंकरः कोविदस्य च ॥ १३० ॥ तस्य तु यथासंख्यन्यायेन क्रमो भग्न इति क्रामिकभन्नप्रक्रमोदाहरणमिदम् । सरस्वतीकण्ठाभरणप्रतापरुद्रयोस्त्वेतदर्थादिक्रमभ्रष्टत्वेन द्विधोक्तम् । यथा-'क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र न क्रमः' । यथा-'तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् । कान्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ' इत्यादि ॥ १२९ ॥ अथ क्रमप्राप्तमक्रमं लक्षयति-यमिति। न चेदमस्थानस्थपदेनैव गतार्थम्। ततोऽस्य विभिन्नरूपत्वात् । तद्यथा अस्थानस्थं पदत्वं तु विरुद्धबुद्धिजनकस्थानस्थितपदत्वम् । इदं तावत्पौर्वापर्यान्यतरत्वेन यस्य पदस्य यदव्यवधानेनैव खाभिमतार्थप्रतीतिजननसामर्थ्य तस्य ततोऽन्यत्र प्रयोग एवेति कथं न लक्षणभेदः । एवंच ऊर्ध्वमित्युपलक्षणं यत्पूर्वमित्यस्यापि । तथा चास्थानस्थपदे पदस्य अयोग्यस्थानतोऽन्यत्र प्रयोगमात्रेण दोषत्वापगमः । अत्र तु पदस्य योग्यैकस्थानप्रयोग एवेति महत्तरमन्तरं बोध्यम् । एतेन अत्र काव्यप्रकाशोक्तमक्रमत्वमस्थानस्थपदत्वान्तगर्तमिति नोक्तमिति चन्द्रालोकेऽस्यासंग्रहनिदानबोधनपरो राकागमकार एव प्रदोषोऽभूत् । अयं हि दोषो निपातैकविषयः । तदुक्तमुद्दयोते—एवं चायं दोषो निपातविषयः । यथा उपसर्गाणां धातोः पूर्वमेव प्रयोगः । एवेत्यादीनां व्यवच्छेद्यानन्तरम् । पुनरादीनां व्यतिरेक्यादनन्तरम् । इवादीनामुपमानादनन्तरम् । एवंच उद्वाहुरिव वामन इत्यादावप्ययं दोषः । चादीनां समुच्चेयादनन्तरमित्यादिबोध्यमिति । आदिना इतीत्थमित्यादीनां निरूपणीयादनन्तरत्वस्य संग्रहः । तथा चोक्तं काव्यप्रदीपे-नचायं चादिपदेष्वेव दोषः किंतु इत्थमादिष्वपि । यथा-'शक्तिर्निस्त्रिंशजेयं तव भुजयुगुले नाथ दोषाकरश्रीवके पार्वे तथैषा प्रतिवसति महाकुटिनी खड्गयष्टिः । आज्ञेयं सर्वगा ते प्रसरति 'पुरतः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपात्सितकरसितया यस्य कीप्रयातम् । अत्र इत्थं प्रोच्येवेति वाच्यमित्यादिनअस्तु निपातत्वेऽपि नाव्यवहितत्वेनैव खार्थबोधकत्वनियमः । एतदप्युक्तं तत्रैव । नच नोऽप्यव्यवहितस्यैव तथात्वमतः स न काचिद्विजहावित्यादिकमप्यक्रमभेदः स्यादिति वाच्यम् । 'न खलु न खलु बाणः संनिपात्योऽयमस्मिन्' इत्यादौ व्यवधानेऽपि प्रतीतिविशेषाभावादिति । एवं निरुक्त निपातानामपि व्यवधानेन स्वार्थाबोधकत्वमुपपादितं महिमभट्टेन । 'अतएव व्यवहिर्बुधा नेच्छन्ति चादिभिः । संबन्धं ते हि खां शक्तिमुपदध्युरनन्तरे' इति । वस्तुतस्तु यदूर्ध्वमित्यस्योपलक्षणलानङ्गीकारेऽपि न क्षतिः । तथाहि-उपसर्गाणां धातोः पूर्वत्वनैयत्यार्थमेव तदङ्गीकार्य तस्य तु व्याकरणत एव 'उपसर्गाः क्रियायोगे' इत्यादिना तथात्वं सिद्धमिति तद्वैपरीये च्युतसंस्कृतत्वादिदोषत्वमेव नत्वक्रमत्वमिति । तस्माद्यथाश्रुतमेव लक्षणं रमणीयमिति दिक् । तदुदाह रति-सेव्य इति । अत्र कोविदस्य विदुषः एकः