________________
विषरत्नम् ६] सरसामोदव्याख्यासहितम् ।
२३३ आपदः शान्तिमायान्ति बोधो विपदः कुतः। भक्तिरेव वरं लोके भक्तिभिः किं न सिद्ध्यति ॥ १२८ ॥ गाहन्तां ब्रह्मदुग्धाब्धौ बुधाश्चित्स्मयतां धिया ।
कान्तायां काञ्चने चापि लोभः कामश्च मास्तु मे ॥ १२९ ॥ त्वं आत्मानं अद्वैतं प्रत्यञ्चं अधिगन्तुं प्राप्तुं तं निरुक्तस्वरूपमात्मानं भजख ध्यायस्वेत्यर्थः । वा 'वास्याद्विकल्पोपमयोरेवार्थे च समुच्चये' इति विश्वादथवेति यावत् । स्वेति । खस्य आत्मनः ईप्सा मनोरथविशेषस्तया निमित्तीभूतयेयर्थः । अभ्युदयसिद्धिनिमित्तं वेति यावत् । तं भजस्वेत्यत्रापि संबध्यान्तर्द्वितीयो वाका. रोऽवधारणार्थकतया तच्छब्दोत्तरं योज्यः । तमेव भजखेत्यर्थः । एवं च बुभुक्षुणाप्यात्मध्यानमेव विधेयमिति सिद्धम् । इदं तु प्रत्ययक्रमभङ्गोदाहरणम् । अधिगन्तुमिति तुमुनः क्रमे स्वेप्सयेति सनोऽभिधानात् । यथावा काव्यप्रकाशे'यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति लक्ष्मीः' इति। संन्यासेति। अत्र लोके संन्यासादिमतः वैधकर्मत्यागाद्यखिलसाधनवतः मुमुक्षोरित्यर्थः । आदिना शमादेर्ग्रहः । त्याग एव विषयतिरस्कार एव अतिरिच्यते अधिकतमं साधनं भवतीत्यन्वयः । अत्र त्यागाद्यखिलसाधनवतोऽपि मुमुक्षोस्त्याग एवाधिकोऽपेक्षित इति वक्तव्ये सन्यासादिमतोऽपीत्युक्तमिति पर्यायक्रमभङ्गोदाहरणमिदम् । यथावा काव्यप्रदीपे–'महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा' इति ॥ १२७ ॥ आपद इति । बोधोत्रं ब्रह्मसाक्षात्कारोत्तरम् । आपदः 'तरति शोकमात्मवित्' इति श्रुतेर्यावदृश्यदुःखानि शान्तिमुपशमं आयान्ति। अतः विपदः संकटानि कुतः । न कुतोऽपि कारणात्संभवन्तीति योजना । अत्र बोधशब्दितात्मज्ञानोत्तरं यदा आपच्छब्दितनिरुक्तदुःखान्येवोपशाम्यन्ति तदा आगामिनामापच्छन्दितप्रारब्धक्रियमाणादिदुःखान्तराणां कुतः संभव इति वक्तव्ये विपद इति विकारोपसर्गावच्छिन्नप्रयोगादुपसर्गक्रमभङ्गः । आकुपसर्गोपक्रमे तस्यैवाग्रे प्रयोक्तुमौचित्यादित्याशयः । यथावा किराते द्रौपद्या उक्ति:-'विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियाम्' इति । रहयति त्यजति । आयतिरुत्तरकालशुद्धिः । आपदा उपेतं विशिष्टम् । पदं स्थानम् । भक्तिरेवेति । अत्रैकवचनोपक्रमाद्भक्तिभिरिति बहुवचनेन वचनक्रमभङ्गः स्फुट एव ॥ १२८ ॥ गाहन्तामिति । त्रिपदीयं विपरीतैवान्वेति । बुधाः पण्डिताः । ब्रह्मेति । एतेन निमज्जनयोग्यत्वं व्यज्यते । गाहन्तां निम. जन्त्वित्यर्थः । अथ तैरिति शेषः । धिया चित्स्मर्यतामिति संबन्धः । इह गाहन्तामिति कर्तकारंकतिङः प्रक्रमे स्मर्यतामिति कर्मकारकस्य तस्य प्रयोगात्तत्क्रमभङ्गः । कान्तायामिति । अत्र कान्तायां कामः काश्चने लोभश्च मे मास्त्विति वाच्यम् ।