SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३२ साहित्यसारम् । [ पूर्वार्धे काव्याप्रसिद्धपदकं प्रसिद्धिधुतमिष्यते । नायं मञ्जीरनिर्घोषः किंतु दुःखोदधिध्वनिः॥ १२४॥ प्रस्तावौचित्यरहितं भग्नप्रक्रममेव तत् । प्रकृत्या प्रत्ययनापि पर्यायेणोपसर्गतः॥ १२५॥ वचनेन तिङा चैव क्रमेणापीति सप्तधा। स्वनाथेऽभ्युदयं याते कुलस्त्रीवाजिनी गता ॥ १२६ ॥ आत्मानमविगन्तुं वा स्वेप्सया वा भजस्व तम् ।। संन्यासादिमतोऽप्यत्र त्याग एवातिरिच्यते ॥ १२७॥ परः संगृह्यते । तद्यथा-काव्यप्रदीपे तावदप्रयुक्तं प्रकृत्य 'तथानुशासनसिद्धमपि कविभिर्यन्न प्रयुक्तम् इति तल्लक्षणमभिहितं ततोऽत्र प्रसिद्धिधुतं प्रकृत्य मजीरादिषु रणितप्रायपक्षिषु च कूजितप्रभृतिस्तनितमणितादिसुरते मेघादिषु गर्जितप्रमुखमिति प्रसिद्धिमतिक्रान्तमिति तत्स्वरूपमपि निरूपितमेव मूलेऽपि। तत्र निरुक्तप्रसिद्धिस्तावत्कविसामयिक्येवेति किमनयोर्भेदकमिति कृतमतय एव परिचिन्तयन्तु । अतएव राकागमेऽप्येतदनूद्य तस्याप्रयुक्तमध्येऽन्तर्भावान्मूलेऽनुक्तिरिति चन्द्रालोकेऽस्यासंग्रहकारणमिदमेवोक्तमिति हृदयमिति ते वदन्ति । मया तूच्यत एवेल्याशयेन तल्लक्षयति-काव्येति । तदुदाहरति-नायमिति । समाधानं तूक्तमुद्दयोतेऽत्रैव । अतो नाप्रयुक्तत्वम् । सर्वथा प्रयोगनिषेध एव हि स दोषः। प्रकृते चार्थविशेषे प्रयोगोऽनुमत एवेत्याहुरिति ॥ १२४ ॥ ततः क्रमप्राप्तं भग्नप्रक्रमं लक्षयति-प्रस्तावेति । तस्य प्रकृत्यादिनिमित्तभेदेन सप्तविधत्वमभि. धत्ते-प्रकृत्येत्यादिनैकेन ॥१२५ ॥ क्रमेण तानुदाहरति-स्वनाथ इत्यादि सार्धत्रिभिः । खस्याः नाथः खामी सूर्यस्तस्मिन्नित्यर्थः । गता अभ्युदयमित्यनुकर्षणीयम् । तेन विकास प्राप्तेति यावत् । अत्र यातेः प्रकृतेः प्रस्ताव गतेति गमेः प्रयोगः । 'प्रकृत्या क्रमभङ्गमावहतीति प्रथमस्योदाहरणमिदम् । यथावा काव्यप्रदीपे-'नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता । कुलाङ्गनानां हि दशानुरूपं नातः परं भद्रतरं समस्ति' । अत्रास्तं गत इति गमेः प्रकृतेः प्रस्तावे यातेति यातेः प्रयोगे प्रकृतिक्रमभङ्गः । भिन्नाभ्यामुपस्थापितं भिन्नवद्भवतीति कुलाङ्गनानां 'खामिसदृशावस्थाप्रतीतिर्न संभवति । तस्माद्गता निशापीति युक्तः पाठः । ननु 'नैकं पदं द्विःप्रयोज्यं प्रायेण'इति वामनसूत्रम् । अत्रापि कथितपदमनुपदमेवोक्तम् । तथाच पुनर्गमेः प्रयोगो दुष्टः स्यादितिचेन्न । उद्देश्यप्रतिनिर्देश्यातिरिक्तं हि एकपदं द्विःप्रयोगनिषेधविषयः । तादृशे तु विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो वा प्रयोग विना दोषः । यथा-'उदेति सविता ताम्रस्ताम्रएवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता' । इत्यत्र रक्त एवास्तमेति चेति यदि क्रियेत तदा पदान्तरप्रतिपद्यमानः स एवार्थोऽभिन्न इव प्रतीयमानः प्रतीतिं व्यवदधीतेति ॥ १२६ ॥ आत्मानमिति । हे मुमुक्षो,
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy