________________
सरसामोदव्याख्यासहितम् ।
अस्थानस्थसमासं तद्यत्रायोग्ये स्थलेऽस्ति सः । भक्तेऽपि काम ते शक्तिरित्यार्चिःशालिदृक्शिवः ॥ १२१ ॥ वाक्यान्तरपदेनापि मिश्रं संकीर्णमुच्यते । मुक्तानामप्यहं सङ्गदुःखदोऽभूस्त्यजामि तम् ॥ १२२ ॥ अन्तः स्थितान्यवाक्यं यत्तद्गर्भितमिहोदितम् । रे चित्त स्त्रीषु वच्मि त्वां सक्तं मा भव कुत्रचित् ॥ १२३॥
विषरत्नम् ६ ]
२३१
हि प्रेम्ण गुणा न वस्तुनि ' इति । अत्र काचिन्न विजहाविति वाच्यमिति काव्यप्रकाशः । साहित्यदर्पणेऽपि अस्थानस्थपदता यथा - ' - 'तीर्थे तदीये गजसेतुबन्धाप्रतीपगामुत्तरतोऽस्य गङ्गाम् । अयत्नवालव्यजनीबभूवुर्हेसा नभोलङ्घनलोलपक्षाः ' । अत्र तदीय इति पदात्पूर्वं गङ्गामित्यस्य पाठो युक्त इति ॥ १२० ॥ एवमस्थानस्थसमासं लक्षयति - अस्थानस्थसमासमिति । अत्रायोग्यत्वं तु वक्तुर वीरत्वादिकमेव । तदुदाहरति — भक्तेऽपीति । रे काम मदन, ते तव शक्ति: संमोहनादिसामर्थ्यं भक्तेऽपि मदेकप्रेमशालिनि रामचन्द्रादावपि विषये प्रसरति इति हेतोः शिवः अर्चिःशालिदृक् अर्चिषा तृतीय नेत्राग्निज्वालया शालते शोभत इति तथा तादृशी दृकूदृष्टिर्यस्य स तथा । ज्वालामालिविलोचन इत्यर्थः । अभूदिति शेषः । अत्र पूर्वपादो हि शिववाक्यमिति तस्य वीररसशालित्वेन तत्र वक्ष्यमा - णौजोगुण घटकसमासस्यापेक्षितत्वेऽपि तदकरणादुत्तरपादे कविवाक्यत्वेन शान्तरसप्राधान्यात्तदनुकूलवक्ष्यमाणमाधुर्यगुणविरोधिसमासानपेक्षत्वेऽपि तत्र तत्करणाच्च लक्षणसंगतिः । यथावा काव्यप्रदीपे - ' अद्यापि स्तन शैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । उद्यद्दूरतर प्रसारितकरः कर्षत्यसौ तत्क्षणात्फुल्लत्कैरवको शनिः सरदलिश्रेणीकृपाणीं शशी' । अत्र पूर्वार्ध क्रुद्धस्य शशिन उक्तिरिति तत्समासस्य योग्यं स्थलं न पुनः कवेरुक्तिरुत्तरार्धमित्यस्थानस्थसमासतेति ॥ १२१ ॥ संकीर्ण लक्षयति - वाक्यान्तरेति । अपिना पदबाहुल्ये तु कैमुत्येनैव तत्सिद्धिः सूचिता । तदुदाहरति — मुक्तानामपीति । यथावा चन्द्रालोके - 'वक्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते' इति ॥ १२२ ॥ अथ गर्भितं लक्षयति - अन्तरिति । अन्तः मध्ये स्थितं अन्यवाक्यं वाक्यान्तरं यस्य तत्तथेत्यर्थः । इह अस्मिन्नलंकारशास्त्रे । उदितं प्रकाशितमिति यावत् । तदुदाहरति-रे चित्तेति । अत्र रे चित्त, अहं त्वां वच्मि । किं वदसीति चेत्त्वं कुत्रचिदपि देशे काले वा स्त्रीषु । यावत्स्त्रीमात्रेऽपीत्यर्थः । तेनैकस्यां द्वयोर्वा तयोरासक्तिशङ्काव्युदासः । सक्तमनुरक्तं मा भवेति वक्तव्ये त्वां वच्मीति वाक्यं स्त्रीष्वित्यादिवाक्यान्तरस्य मध्य एव पतितमिति लक्षणसंगतिः । यथावा काव्यप्रकाशे - 'परापकारनिरतैर्दुर्जनैः सह संगतिः । वदामि भवतस्तत्त्वं न विधेया कदाचन' इति ॥ १२३ ॥ अथात्र काव्यप्रकाशादौ प्रसिद्धियुताख्यं वाक्यदोषान्तरमुक्तं तत्त्वप्रयुक्ताख्यपददोषेणैव चरितार्थमिति न
1