SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ [पूर्वार्धे २३० साहित्यसारम् । यत्रानभिहितं वाच्यं द्योतकं तत्तथा मतम् । दोषलेशः क राधे मे मनुतायास्तथापि रुट् ॥ ११९ ॥ अस्थानस्थपदं तत्स्याद्यत्रायोग्यस्थले पदम् । श्रीकुचे कौस्तुभस्यांशून्विष्णुस्ताम्रान्परामृशन् ॥ १२०॥ इदानी क्रमागतमनभिहितवाच्यं लक्षयति-योति । वाच्यं वक्तुं योग्यम् । अवश्यकथनीयमित्यर्थः । किं तदित्यत्राह-द्योतकमिति । व्यञ्जकं अपिशब्दादीति यावत् । तत्तथा अनभिहितवाच्यं भवतीति संबन्धः । एवंचाकथितव्यञ्जकमिति तल्लक्षणमपि फलितम् । तेन न न्यूनपदेऽतिव्याप्तिः । तस्यानभिहितवाचकत्वादस्य त्वनभिहितव्यञ्जकत्वेनातथात्वाच्च । तमुदाहरति-दोषलेश इति । हे राधे, मे श्रीकृष्णस्य ममेत्यर्थः । दोषेति । अत्र दोषलेशोऽपीत्यपिशब्दो यावदोषाभावद्योतकोऽवश्यं वक्तुं युक्तः । नोचेदीषद्दोषो नास्ति किंतु भूरितर एवेति विरुद्धार्थप्रतीत्यापत्तिः। तेन तदनुक्तेरिदमनभिहितवाच्याख्यवाक्यदोषदुष्टं काव्यमिति लक्षणसंगतिः । इदं चान्यथावाच्यस्य पदस्यान्यथाभिधानतोऽपि ज्ञेयम् । तद्यथा-मदिति । हे राधे, इत्यत्राप्यनुकृष्यम् । मया नुता स्तुता तस्या इत्यर्थः । तवेत्यर्थसमाजादेव लभ्यते । अत्र मन्नुतासीति विन्यास एव तथापि रुडिति चरमवाक्यगततथापि शब्दसांगत्यम् । तस्य षष्ठयन्तत्वेनान्यथैवाभिधानमित्यस्य निरुक्तदोषदुष्टतेत्याशयः । यथावा साहित्यदर्पणे वाच्यानभिधानं यथा-'व्यतिक्रमलवं कं मे वीक्ष्य वामाक्षि कुप्यसि । अत्र व्यतिक्रमलवमपीत्यपिरवश्यवक्तव्यो नोक्तः । न्यूनपदत्वे वाचकपदस्यैव न्यूनता विवक्षिता। अपेस्तु न तथात्वमिति भेदः । एवमन्यत्रापि । यथावा-'चरणानतकान्तायास्तन्वि कोपस्तथापि ते' । अत्र चरणानतकान्तासीति वाच्य मिति । एवं मयापि नुतेति समासेऽपिरवश्यमपेक्षितस्तदभावादितरत्र खापेक्षया महत्त्वेन तत्कर्तृकस्तुत्याकाङ्केति समासेऽपि द्योतकानभिधानादनभिहितवाच्यत्वमिति दिक् ॥ ११९ ॥ अथास्थानस्थपदं लक्षयति-अस्थानेति । अयोग्येति । तत्त्वं च विरुद्धप्रतीतिप्रयोजकत्वम्।एवं संमतोपयोगाप्रयोजकत्वमपि । तेन निरुक्तद्वया न्यतरत्वमिति निष्कर्षः । तदुदाहरति-श्रीति । अत्र विष्ण्वाख्यकर्तृपदाव्यवहितोत्तरं परामर्शाभिधक्रियापदाव्यवहितपूर्वं ताम्रानिति द्वितीयान्तत्वेन प्रयुज्यमानं कर्मपदं यवनविशेषप्रतीतिकरं भवतीति प्राथमिकायोग्यस्थललक्षणानुसारेणोदाहरणं तथा विष्णोर्वक्षःस्थितकौस्तुभकिरणानां संमुखस्थितायाः श्रियः कुचमण्डलसंक्रान्तत्वेन खनखलेखाभ्रान्तिजनकं यदारुण्यं तत्तावत्तद्धटकस्य ताम्रानिति विशेषणस्य विशेष्यतः प्राक्प्रयोग एव संघटत इति चरमतल्लक्षणरीत्यापीति बोध्यम् । विष्णुः श्रीकुचे कौस्तुभस्य ताम्रानंशून्परामृशन्नासेति क्रियाध्याहारेणा. न्वयः । यद्वा 'व्यमर्शयत्' इति पाठः । यथावा किराते-'प्रियेण संग्रथ्य विपक्षसंनिधौ निवेशितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजही जलाविलां वसन्ति
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy