________________
विषरत्नम् ६]
सरसामोदव्याख्यासहितम् ।
२२९
समासगृहनाद्धीनौ भवाब्धिमकरः स्मरः।
वाग्व्युत्पत्तिविरोधाच्च शंभोः पादोऽवतान्निजान् ॥११८॥ विजेयः शस्त्रव्यस्तः सदनमुदधिभूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः' । अत्र रेणुकाकण्ठबाधाजन्यात्मनिन्दया भार्गवस्य योगो विवक्षितः । तन्निन्दाप्रकरणात् । परशोः खक्रियापाटवेनानिन्दनीयत्वाच्च । नच तथा प्रतीयते । कृतवतेति तृतीयया पर. शुनैव संबन्धावगमात् । कृतवत इति पाठे तु भार्गवे निन्दायोगः प्रतीयते। यदि परशुनिन्दान्तरविदग्धोक्त्यापि भार्गवेऽपि निन्दावगमस्तदा कृतवत्वस्यानेनायोगाद्वाच्यायोगोदाहरणमेवैतत् । तथाहि यथा स्पर्धायोग्यत्वोपपत्तये परशुखामिनो महादेवस्य शिष्यत्वादीनि विशेषणान्युपात्तानि तथा तदयोग्यत्वोपपादनाय तस्यैव कश्चिद्धर्मो वक्तुमुचित इति भार्गवेण कृतवत्वस्यान्वयो विवक्षितो न प्रतीयत इति दुष्टत्वमिति ॥ ११७ ॥ अथ समासाच्छादनादपि क्वचिदुपलभ्यते मतायोग इत्याह-समासेत्यर्धेनैव । तमुदाहरति-धीति । अत्र धीनावः तत् प्रतियोगिकान्योन्याभावाधिकरणतावच्छेदकावच्छिन्नयावद्भिरपि तर्तु. मशक्यत्वादद्वैतविद्यैकनौकायास्तथा । 'आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च' इत्यादिस्मृतेः योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्ब्रह्माप्येति' इत्यादिश्रुतेश्च महानर्थमूलत्वेन मकराख्यजलजन्तुविशेषरूपस्य कामस्य च भवाब्धावेवान्वयोऽधिकरणतासंबन्धेनाभिमतोऽपि भवाब्धीति सप्तमीतत्पुरुषेण पिहितत्वान्न प्रतिभातीत्येतदुक्तदोषदूषितं बोध्यम् । भवाब्धौ मकर इति पाठे तु नैष दोषः । यथावा काव्यप्रकाशे–'चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता । कौरव्याः पशवः प्रियापरिभवक्लेशो. पशान्तिः फलं राजन्योपनिमन्त्रणाय सरति स्फीतं यशोदुन्दुभिः'। अत्राध्वरशब्दः समासे गुणीभूत इति न तदर्थः सर्वैः संयुज्यत इति । 'यज्ञेऽस्मिन्युधि दीक्षितः' इति पाठे तु न कोऽपि दोषः । एवं व्युत्पत्तिविरोधादपि क्वचिदयमत्र लोक्यत इत्याह-वागिति । चः समुच्चये। तमुदाहरति-शंभोरिति पादेनैव । निजान् खकीयान् । भक्तानिति यावत् । अत्र हि प्रधानं पाद एव तेन निजपदशक्यतावच्छिन्नेषु तदीयत्वमेव सिद्ध्यति । प्रधानैकायत्तनिजादिशब्दसंबन्धिव्युत्पत्तिनैयत्यात् । अपेक्ष्यते तु शंभो इति लक्षणसाङ्गत्यम् । यथावा काव्यप्रदीपे-जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मजुमजीरभृङ्गः । भर्तुर्वृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः' । अत्र तनुपदार्थस्य पार्वत्या योगोऽभिमतः दण्डपादेन प्रतीयते । वाक्यं यत्प्रधानं तत्रैव निजादिपदव्युत्पत्तेरिति । यथावा रसतरङ्गिण्याम्-'एषा भार्गव तावकी विजयते निस्त्रिंशधारा निशा' इति॥११८॥