________________
२२८ साहित्यसारम् ।
[ पूर्वार्धे तिरुज्ज्वलेति रूपस्य किं श्रोतव्यमिति तदाकाङ्क्षापूरकवाक्यस्य च परस्परमनाका. कत्वाद्योयं वक्तुः संमतो योगः स्तवनव्यञ्जनलक्षणः स तु नैव भातीति लक्षणसमन्वयः । तस्योत्तमनायकत्वेन खकीयौज्ज्वल्यश्रवणाकाङ्क्षायाः कालत्रयेऽप्यसंभवात्प्रत्युत त्वत्कीर्तिरुंज्ज्वलेति वक्तर्येव वं धन्योऽसीत्यादिवद्विरोधिलक्षणया निन्दकलपर्यवसानाच । यदि राम, शृणु दृष्टाद्य जानकीति पठ्येत तदा साकाङ्कमेव । किंचात्र शब्दनैराकाङ्क्षयमपि । तद्यथा-यद्यत्र निरुक्ततत्कीतौ श्रवणक्रियाकर्मत्वं तदा त्वत्कीर्तिमुज्ज्वलामित्यपेक्षितं । यदि त्वत्कीर्तिरित्यादिवाक्यार्थस्यैव कर्मवं तदेतिशब्द इदंशब्दो वापेक्षित इति तदभावात्तथात्वं बोध्यम् । नच तदध्याहारेणैवास्यानुदाहरणत्वम् । तस्यागतिकत्वादसार्वत्रिकत्वाचेति दिक् । यथावा काव्यप्रकाशे-'संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरमला कीर्त्या च लोकत्रयम्' । अत्राकर्णनक्रियाकर्मत्वे कोदण्डं शरानित्यादि वाक्यार्थस्य कर्मत्वे कोदण्ड: शरा इति प्राप्तम् । नच यच्छब्दार्थस्तद्विशेषणं वा कोदण्डादिः । नच केनकेनेत्यादिप्रश्न इति । एवं क्वचित्कविसंमताव्यजनादपि वीक्ष्यते मतायोग इत्याह–इष्टेति । इष्टं कविसंमतं यदर्थजातं तस्याव्यञ्जनमध्वननं तस्मादित्यर्थः । तमुदाहरति-कार्णमिति । अत्र यशस्त्वावच्छेदेन सितत्वं तावत्कविसमये यद्यपि सर्वत्र सिद्धमेव तथापि तत्र जारचोरचक्रवर्तित्वेन प्रसिद्धस्य कृष्णस्य संबन्धितया तथा कृष्णशब्दितनीलरूपवद्रव्य. संबन्धितया च सितभवनाक्षेपो विरहदशायां राधादिकर्तृकतन्निन्दाव्यञ्जनयैवावश्यं वाच्यः । नचासौ संभवति यशः सितमभूत्कथमिति तद्यशसि सितीभवननिर्णयोत्तरमेव तत्राक्षिप्तत्वेन तन्निर्णयनान्तरीयकतयैव तनिन्दाव्युदासात्प्रत्युत स्तुतेरेव द्योतितत्वाच । नचात्र 'उक्तियाजस्तुतिनिन्दास्तुतिभ्यां स्तुतिनिन्दयोः। कः वधुनि विवेकस्ते पापिनो नयसे दिवम् । साधु दूति पुनः साधु कर्तव्यं किमतः परम् । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि' इत्युक्तो व्याजस्तुत्यलंकार एवास्तीति नैवेदमुक्तदोषोदाहरणमिति वाच्यम् । तदसंभवात् । तथाहि किमत्र निन्दया स्तुत्युक्तिरिति ब्रूषे स्तुत्या वा निन्दोक्तिरिति । नाद्यः। यशसि सितत्वनिर्णयान्यथानुपपत्त्या स्तुतेरेव सिद्धत्वात् । तर्हि तत एव द्वितीय एवास्त्विति चेन । स्तुतेर्वाक्यार्थत्वे निरुक्ताक्षेपासंभवात्तदीये प्रकृतोदाहरणे तथात्वादर्शनाच्च । यदि विरोधाभासं 'आभासत्वे विरोधस्य विरोधाभास इष्यते। विनापि तन्वि हारेण वक्षोजौ तव हारिणौ' इत्युक्तरूपं पश्यसि चेद्बाढमलंकार एव स नः स्यात्तथापि कथमित्याक्षेपेणेष्टस्य निन्दनस्य व्यजनप्रतियोगिकाभावसत्त्वाद्दोषोदाहरणत्वतादवस्थ्यमेव । तस्मादिदमिष्टवस्त्वसूचनादेवाभवन्मतयोगाख्यवाक्यदोषोदाहरणमिति ध्येयम् । तदुक्तं काव्यप्रदीपे अभवन्मतयोगं प्रकृत्य व्यङ्गयस्यापि विवक्षितयोगाभावेऽस्यावतारः । यथा-'चापाचार्यस्त्रिपुरविजयी कार्तिकेयो