________________
विषरत्नम् ६] सरसामोदव्याख्यासहितम् ।
आकाङ्क्षाविरहाद्राम शृणु त्वत्कीर्तिरुज्ज्वला ।
इष्टा व्यञ्जनतः काणे यशः सितमभूत्कथम् ॥ ११७॥ बोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः' इति कविसमयस्यापि संमताः । तस्मानिरुक्तपण्डितव्युदासार्थमत्रापि कवेः शास्त्राध्ययनजन्यतत्संमतबोधसंस्कृतत्वसूचकं यस्य धीरिति विशेषणं संमतमेव । तत्तु सतेत्यत्र तृतीयावशाद्विभक्तिभेदेन नैव संभवतीत्येतद्वाक्यं निरुक्तदोषदूषितमित्याशयः। यथावा काव्यप्रदीपे'येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभिलीलापानभुवश्च नन्दनतरुच्छायासु यैः कल्पिताः । येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किं तैस्त्वत्परितोषकारि विहितं किंचित्प्रवादोचितम्' । अत्र यैरित्यस्य विशेष्यतया क्षपाचारिशब्दार्थो विवक्षितः । नच तेन ततस्तथा योगः प्रतीयते विभक्तिभेदात् । अथ यैलीलापानभुवः कल्पिताः येषां प्रतापोष्मभिरित्यादिप्रकारेण यच्छब्दाभिधेययोरेव तथान्वयोऽस्तु किं विशेष्यान्तरविवक्षयेति चेन्न । अनुवाद्यानां हि विधेयेनैव साक्षादन्वयो नतु तदनन्तर्भाव्यानुवाद्यान्तरेण । गुणत्वस्योभयत्र तुल्यतया विशेष्यत्वविनिगमनाया अशक्यत्वात् । तदेतदुक्तम् ‘गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' इति । अतएव अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणातीत्यारुण्यादीनां पिङ्गाक्ष्यादिभिर्नान्वयो नापि गवा । तस्या अपि क्रियासाधनत्वेन गुणत्वात् । किंतु क्रयेणैव । कथं तर्हि धय॑न्तरस्थैरप्यारुण्यादिभिर्न क्रय इति चेत् । आरुण्यादीनां गोत्वादीनां आर्थसमाजात् । तर्हि तद्वदेवात्राप्यार्थ एव समाजोऽस्त्वितिचेत् । यदि तद्वत्समान विभक्तित्वं भवेत् । कथं तर्हि भवत्यभिमतो योग इतिचेत् । क्षपाचारिभिरिति पाठे कथं सकलयत्पदनिर्दिष्टानां तत्पदेन परामर्श तेषां सर्वेषां क्षपाचारित्वावगतेरिति । एवं प्रकृतेऽपि स संश्च विदिति पाठ एव योगोऽभिमतः स्यात् । यावद्यच्छब्दवाच्यस्य तत्पदपरामृष्टत्वेन सत्वसिद्धेः संभवात् । एवं वक्रभिमतपदार्थे पदस्यासामर्थ्यादपि क्वचित्स भवतीत्याह-मत इति । तदुदाहरति-यदित्यर्धशेषेणैव। राधा यत् यदा उनिद्रा पूर्व रतिसुखतृह्या निद्रितापि पुनः संस्कारात्कुञ्ज कुसुमशव्यायां जागरूकाभूत् तदा तस्मिनिशीथादौ काले हरिः रेमे चिक्रीडेत्यन्वयः । एतेन तस्यां खाधीनपतिकात्वं तस्मिन्ननुकूलत्वं च ध्वनितम् । अत्र यदिति पदं यदेति कालविशेषार्थकतयाभिमतं तत्र तु तस्य शक्यभावाद्वाक्यस्य संबन्ध एव न भवतीति लक्षणसंगतिः । यथावा साहित्यदर्पणे-'ईक्षसे यत्कटाक्षेण तदा धन्वी मनो. भवः' । अत्र यदित्यस्य तदेत्यनेन संबन्धो न घटते । ईक्षसे चेदिति युक्तः पाठ इति । एवमत्रापि यदोनिद्रेति पठ्यते चेन्नायं दोष इति ध्येयम् ॥ ११६ ॥ एवमाकाङ्क्षाराहित्यादपि क्वचित्स दृश्यत इत्याह-आकाङ्केति । तत्वं च पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमिति प्रसिद्धमेव । तमुदाहरति-रामेत्यादिना प्राग्वदेव । अत्र हे राम, त्वं शृणु इति प्रार्थनावाक्यस्य तथा लत्की