________________
साहित्यसारम् ।
यत्पदं द्युत्तरार्धे तदर्भान्तरगवाचकम् । सद्गुरोः करुणा कामधेनुर्नः क्व दरिद्रता ॥ ११४ ॥ तदिति प्रौढधैर्येण न सीदन्ति कुटुम्बिनः । अभवन्मतयोगं तद्यत्रानभिमतोऽन्वयः ॥ ११५ ॥ स विभक्तेर्भिदा यस्य धीः श्रीर्येन सता स वित् । मते शक्तेर्य दुनिद्रा राधा रेमे हरिस्तदा ॥ ११६ ॥ येनावृत्त्याप्यन्वयसंभवेनानुदाहरणत्वादिति हृदयम् ॥ ११३ ॥ इदानीमर्थान्तरैकवाचकं लक्षयति-यत्पदमिति । यस्य वाक्यस्य पदं न तु पदानि । तथात्वे प्राधान्यस्य तत्रैव संभवेनासंभवापत्तेः । हिर्हेतौ । हेत्वर्थकमेकमेव पदमित्यर्थः । उत्तरार्धे श्लोकस्य द्वितीयदले वर्तते तद्वाक्यमर्धान्तरगवाचकम् । अर्धन्तरैकवाचकत्वाख्यदोषदुष्टमित्यर्थः । तदुदाहरति - सद्गुरोरिति । अत्र यस्माद्धेतोः श्रीगुरोः करुणा नः अस्माकं कामधेनुः अस्ति तत्तस्माद्धेतोः दरिद्रता व । न कुत्रापीत्यर्थः । इत्येवं प्रौढधैर्येण कुटुम्बिनः पुष्कलपरिवाराः गृहस्थाः न सीदन्तीति हेत्वर्थकस्य तत्पदमात्रस्योत्तरार्धगतत्वेनार्धान्त रैकवाचकत्वं ज्ञेयम् । तदुक्तं काव्यप्रदीपे - अर्धान्तरैकवाचकम् । द्वितीयार्धगतमप्रधानं हेत्वर्थकमेकं वाचकं यत्र । तद्यथा—'मसृणचरणपातं गम्यतां भूः सदर्भा विरचयसि च यान्तं मूर्ध्नि घर्मः कठोरः । तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिः शिक्षिता वीक्षिता च' । अत्र भूः सदर्भां तन्मसृणचरणपातं गम्यतामिति वाच्यम् । तत्र च तदित्यर्धान्तरगतम् । अत्र निराकाङ्क्षता दुष्टिबीजम् । श्रुतमात्रस्यैव भूसदर्भत्वस्याक्षेपादिना हेतुत्वप्रतीतेरिति । यथावा साहित्यदर्पणे 'इन्दुर्विभाति कर्पूरगौरैर्धवलयन्करैः रैः । जगन्मा कुरु तन्वङ्गि मानं पादानते प्रिये' इति । इदानीं क्रमप्राप्तमभवन्मतयोगं लक्षयति- अभवदित्यर्धेन । अनभिमतः कवेरसंमत एवान्वयो यत्रावभासते तद्वाक्यमभवन्मतयोगाख्य दोषग्रस्त मित्यर्थः । कव्यसंमतान्वयभानावच्छिन्नवाक्यत्वं तत्त्वमिति तत्सामान्यलक्षणं बोध्यम् ॥ ११४ ॥ ११५ ॥ एवं तर्हि सामान्यपदध्वनितास्तस्य केचिद्भेदा अपि वक्तव्यास्ततः के त इत्याकाङ्क्षायां विभक्तिभेदादिनिमित्तभेदेनैव षोढा सनिमित्तांस्तानुदाहरणैः संक्षिपति स विभक्तेर्भिदेत्यादिश्लोकत्रयात्मकेन विशेषकेण । सः कवेरसंमतो वाक्यान्वय इत्यर्थः । विभक्तीति । सुबादिविभक्तिभेदेनेति यावत् । तमुदाहरति — यस्येत्याद्यर्धशेषेण 1 यस्य पुंसः धीः शास्त्रसंस्कृतमतिरस्ति तथा येन सता 'सन्सुधीः कोविदो बुधः" इत्यमरात्पण्डितेन श्रीः शोभा च लोके भवति स वित् स एव विद्वानित्यन्वयः । अत्र यस्येत्यस्य विशेष्यतया सत्पदार्थोऽभिमतः कवेन चेच्छास्त्राध्ययनमात्रेण विना तत्तच्छास्त्रविवक्षित बुद्धिसंस्कारं विना च तथाऽचरणादिकं पण्डितपदव्यवहार्याः सहस्रशः सन्ति लोके नतु ते तावता 'श्रुतं प्रज्ञानुगं यस्य यस्य प्रज्ञा श्रुतानुगा । असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत स:' इत्यादिशास्त्रस्य ' अधीति
२२६
[ पूर्वार्धे