SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २२५ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । पुनरुत्त्यैव संप्रोक्तपदं शब्दादिनिष्ठया । गोपीभिर्बजबालाभिः क्रीडति क्रीडया हरिः॥ १११ ॥ पतत्प्रकर्षमुत्क्षिप्तानुप्रासयमकादिकम् । बन्धुरन्धान्धुरेवासौ यस्य वृत्तं स्वघातकृत् ॥ ११२ ॥ समाप्तपुनरात्तं तत्पूर्णे यद्गृह्यतेऽन्वये । चन्द्रार्धशेखरः शंभुमी पातु गिरिजाधिपः॥ ११३ ॥ विवक्षितम्। उपात्तेऽप्याकृतिपदे यथाकथंचित्तेनैवोपमितिपर्यवसानादित्याकृतिपदमधिकं नतु व्यर्थवादपुष्टार्थन संकर इति वक्ष्यते । न केवलं समास एव पदाधि. क्यं किंत्वसमासेऽपि । यथा-'इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मा. न्मथो विकारः । यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा'। अत्र कृतमधिकम् । पूर्वार्धवत्तेन विनैव प्रीतिपर्यवसानात् । कृतं प्रत्युत क्रमभङ्गमावहति पूर्वार्धेऽकरणात् । तथाच 'यदपि च न कुरङ्गलोचनानाम्' इति पठनीय. मिति ॥ ११० ॥ अथ कथितपदं लक्षयति-पुनरुक्त्यैवेति । संप्रोक्तेति । कथितपदमित्यर्थः । व्यत्ययेनोदाहरति-गोपीभिरिति । इयमद्विरुक्तिः । क्रीडति । रमेति । इयं तु शब्दद्विरुक्तिरिति ध्येयम् । एवमन्यमप्युदाहार्यम् । सरस्वतीकण्ठाभरणे विदं 'पदं पदार्थश्चाभिन्नौ यत्र तत्पुनरुक्तिमत्' इति लक्षणे. न पुनरुक्तिमत्संज्ञयैवोक्तम् ॥ १११॥ ततः पतत्प्रकर्ष लक्षयति-पतदिति । उत्क्षिप्तेति । उत्क्षिप्ताः परित्यक्ताः अनुप्रासयमकादयः शब्दालंकाररत्ने वक्ष्य. माणाः यस्मात्तत्तथेत्यर्थः। तदुदाहरति-बन्धुरिति । यस्य वृत्तं शीलम् । स्वेति । आत्मनाशकं भवति । असौ बन्धुरपि । अन्धेति । अन्धश्चासावन्धुश्चेति तथा 'पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा' इत्यमरादन्धकूप एवेत्यर्थः ॥ ११२ ॥ अथ समाप्तपुनरात्तं लक्षयति-समातेति । अन्वये पूर्णे परिसमाप्ते सत्यपि यद्वाक्यं तदन्वय्येव शब्दान्तरेण पुनर्गृह्यते तत्समाप्तपुनरात्तमित्यन्वयः । तदुक्तं काव्यप्रदीपे- 'समाप्तपुनरात्तं समाप्तं सत्पुनरुपात्तं वाक्ये समाप्ते पुनस्त. दन्वयि शब्दोपादानं यत्रेत्यर्थः' इति । तदुदाहरति-चन्द्रार्धेति । अत्र पावि. त्यन्तं यथाश्रुतमेवान्वये परिसमाप्तेऽपि गिरिजेत्यादिपदकदम्बं तदन्वय्येव पुन हीतमिति लक्षणसमन्वयः। यथावा काव्यप्रकाशे-'केंकारः स्मरकार्मुकस्य सुरतक्रीडा पिकीनां रवो झंकारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः । तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कणक्वाणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः' इति । नन्वहो विमलं जलं नद्याः कच्छे महिषश्चरतीत्यत्र नदीपदमात्रस्यैव कच्छान्वयार्थ पुनरनुकर्षाद्दोषोदाहरणत्वसंमतावव्याप्तिरसंमतौ शते पञ्चाशन्न्यायेन पदस्यापि संग्रहो लक्षणे चेदतिव्याप्तिश्चेति चेन्न। उक्तन्यायेन लक्षणे केवलपदस्यापि संग्रहे प्रकृते वाक्यभेदस्यानुभविकत्वेन नदीपदस्य काकाक्षिन्या
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy