________________
२२४
. साहित्यसारम् ।
[ पूर्वार्धे छन्दःशास्त्रोक्तदोषेण सहितं प्रथितं हि तत् । आयाति राधाकुञ्जान्तः कृष्ण पश्योत्सुका जवात् ॥१०८॥ यत्रेप्सितपदानुक्तिस्तन्यूनपदमुच्यते । धर्मराज यशस्ते तु मुक्तिश्रीकर्णभूषणम् ॥ १०९ ॥ तत्राधिकपदत्वं स्यात्पदं यत्रानपेक्षितम् । धनान्धभूधनुःशूलदर्शनान्मरणं वरम् ॥ ११०॥
तियोगिरसाद्युचितवृत्तानि तु गुणरत्ने प्रपञ्चयिष्यामः । शोक इति । तदुक्तं काव्यप्रदीपे-प्रकृतरसाननुगुणत्वं यथा-'हा नृप हा बुध हा कविबन्धो विप्रसहससमाश्रय देव । मुग्धविदग्धसभान्तररत्न क्कासि गतः क वयं च तवैते' । इदं. दोधकवृत्तं शोकाननुगुणं तद्विरोधि हास्यव्यञ्जकत्वादिति । एवं वक्ष्यमाणवृत्तरीत्यान्यदप्युदाहार्यम् ॥ १०७ ॥ एवं पारिभाषिकं हतवृत्तं द्विधाभिधायाधुना प्रसिद्ध तु तदनेकभेदभिन्नमित्युपलक्षणविधया पिण्डीकृत्य जात्यभिप्रायेणैकधैव तत्प्रसिद्ध्याभिधत्ते-छन्द इति । हिहेतौ । यतश्छन्दःशास्त्रोक्तदोषेण सहितं तत् हतवृत्तं प्रथितं प्रसिद्धमेवातो न तल्लक्षणाकाडूत्यर्थः । तदुदाहरति-आयातीति । अत्र सर्वत्र लघुपश्चममिति श्रुतबोधादेरनुपदमेवोदाहृतवात्तद्विरुद्धस्यात्र धाकारस्य गुरुवणेस्य सत्वात्तथात्वं बोध्यम् । इयं हि सख्युर्भगवन्तं प्रत्युक्तिः । उत्सुका उत्कण्ठिता। जवादभसादित्यर्थः । उपलक्षण मिदं यतिभङ्गादेरपीति ध्येयम् । तेन 'जानेऽमुना कर्णलतामयेन पाशद्वयेन च्छिदुरेतरेण । एकाकिपाशं वरुणं विजिग्येऽनङ्गीकृतायासतती रतीशः' इति कविप्रसिद्धि विरुद्ध प्रतिपादने राकागमकृतोदाहृते पूर्वपादप्रविष्टा चेति यतिभङ्गविशेषस्य संग्रहः । यथावा-'अमृतममृतं कः सं. देहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनमध्यस्थः सन् रसान्तरविजनो वदतु यदिहान्यत्वादु स्यात्प्रियारदनच्छदात्' इति काव्यप्रकाशकृता यतिभङ्गस्थलमुदाहारि । अत्र हरिणीच्छन्दसि षष्ठे वर्णे समुचिताया यतेश्चतुर्थपादगते हेतिवर्णे भङ्ग इत्यश्रव्यत्वमित्युदाहरणचन्द्रिकापि ॥१०८॥ अथ न्यूनपदं लक्षयति-यत्रेति। तदुदाहरति-धर्मराजेति। अत्र यशसि मुक्तिश्रीकर्णभूषणत्ववर्णनान्यथानुपपत्तेरवश्यं तत्र पुण्डरीकपद्यशः पुण्डरीकमि तिरूपकादिघटितमपेक्षितं तदभावादिदं न्यूनपदमित्यर्थः ॥१०९॥ एवं क्रमप्राप्तमधिकपदं लक्षयति-तत्रेति । यत्र अनपेक्षितं निराकासितं पदं अस्तीति शेषः । तदुदाहरति-धनेति । धनेन अन्धाः प्रमत्ताः तेषां भ्ररेव वक्रत्वादिगुणयोगाद्नुः तदेव श्यामत्वादिना शूलं तस्य यद्दर्शनं तस्मादित्यर्थः । अत्र धनुःशूलान्यतरपदेनैव संत्रासजननव्यञ्जनसिद्धावन्यतरवैयर्थं स्फुटमेवेति भावः । यथावा काव्यप्रदीपे'स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसंक्रान्तनिशान्तशास्त्रतत्त्वः । अविरुद्धसमर्थितोक्तियुक्तः प्रतिमल्लास्तमयोदयः स कोऽपि' । अत्र स्फटिकमेव निर्मलतायामुपमानं