________________
२२३
विषरत्नम् ६] सरसामोदव्याख्यासहितम् ।
किंचेह दूरविकृतेर्धात्वादेर्विकृतं मतम् । ऐयरुगोपिकाः कृष्णं श्लथन्नीव्यः स्खलत्पदाः॥१०६॥ हतवृत्तं तथाभाति च्छन्दोदोषं विनैव यत्। .
रसानुचितवृत्तिं च शोके दोधकवृत्तवत् ॥ १०७ ॥ भवतीत्यन्वयः । अत्र-'लिङ्गसंख्याविभेदेऽपि विशेषणविशेष्यता। विभक्तिः पुनरेकैव विशेषणविशेष्ययोः' इति वचनाद्धे इति विशेषणस्य द्विवचनान्तत्वेऽपि कुसंधीत्येकवचनान्तेऽपि विशेष्ये न क्षतिः । तत्वं च संधावश्लीलताद्यन्यतरत्वम् । तथाच ग्राम्यादिप्रतीतिजनकसंध्यवच्छिन्नत्वमश्लीलकुसंधित्वं क्लेशसाध्यसंध्यवच्छिनत्वं क्लिष्टकुसंधित्वं चेति प्रत्येकं लक्षणं बोध्यम् । तदुक्तं चन्द्रालोके-'कुसंधिपटवागच्छ' इति । व्याख्यातमिदं राकागमे । संधावश्लीलता क्लिटत्वं च कुसंधित्वम् । पटो आगच्छेत्यत्र संधावश्लीलता । 'उर्व्यसावत्र तर्वालीमन्तेि चार्ववस्थितिः। नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक्' इत्यादौ क्लिष्टत्वमिति । तदुदाहरत्युभयमपि क्रमेण-बटवाकलयेति। अत्र बटवेति तृतीयचरणेऽश्लीलखम् । कुर्वलमित्यादिचतुर्थे तु संधौ क्लिष्टत्वमिति लक्षणसमन्वयः। हे बटो माणवकेति च्छेदः । आकलय संपादयेत्यर्थः ॥ १०५॥ तथा चन्द्रालोके दोषान्तरमपि क्लिटसजातीयं व्याकरणक्लिष्टापरपर्यायमत्र संमतमिति क्रमेण सलक्षणोदाहरणम् । तदाह -किंचेहेति। निपातद्वयमिदं समुपपादितैतत्संमतक्लिष्टकुसंध्यादिदोषसमुच्चयार्थम्। इह पूर्वोदाहृते चन्द्रालोके । दूरेति । धात्विति । इमे पञ्चमीषष्ठयौ। तथाच धातुप्रत्ययसंबन्धिनी या दूरविकृतिरतिव्यवहितपरिणतिस्तस्या हेतोरित्यर्थः । विकृतं मतं एतनामकं वाक्यदोषजातं संमतमिति संबन्धः। तद्यथा चन्द्रालोके'विकृतं दूरविकृतेरैयरुः कुञ्जराः पुरः' इति । विवृतं चेदं राकागमे । दूरविकृतेर्महतो धातुप्रत्ययविकारादुत्पन्नम्। जौहोत्यादिकत्वेन श्लुविकरणस्य ऋ गतावित्यस्य श्लौ द्वित्वे उरदत्वे रेफलोपे 'अर्तिपिपर्योश्च' इत्यभ्यासस्यत्वे 'अभ्यासस्यासवर्णे' इतीयङि 'सिजभ्यस्तविदिभ्यश्च' इति जुसि 'जुसि च' इति गुणे आडागमे 'आटश्च' इति वृद्धौ ऐयरुः इति लङि रूपमिति । तदुदाहरति-ऐयरुरिति । गोपिकाः श्लथनीव्यः विषेसद्वसनग्रन्थयः स्खलत्पदाश्च सत्यः कृष्णं ऐयरुः प्रापुरियर्थः ॥१०६ ॥ इदानीं क्रमप्राप्तं हतवृत्तं लक्षयति-हतेति। यत् छन्दोदोषं वि. नैव । च्छन्दःशास्त्रोक्तदूषणमन्तरैवेत्यर्थः । तथा दूषितमिवेति यावत् । भाति परिस्फुरति तद्धतवृत्तमित्यध्याहृत्य योज्यम् । उदाहरणं त्वत्रैतदेव । इह प्रथमपादान्तिमाक्षरस्य 'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं दीर्घ तु पादेषु शेषेष्वनियमो मतः' इति च्छन्दोमायुक्तस्य श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुःपादयोर्हखं सप्तमं दीर्घमन्ययोः' इति श्रुतबोधोक्तस्य श्लोकाख्यवृत्तस्य लक्षणसत्वाच्छन्दोदोषं विनैव गुरुत्वमपेक्षितमिवावभातीति लक्षणसंगतिः । प्रकारान्तरेण तदाह-रसेति । चः समुच्चये । हतवृत्तं भवतीति भावः। तत्प्र