________________
साहित्यसारम् ।
[पूर्वार्धे एवं विसर्गबाहुल्यमुक्तमुद्द्योतकृन्मते। चन्द्रः क्रूरः स्मरः शूरः कठोरः कुसुमाकरः ॥ १०३ ॥ विसंधिवचनेच्छाभ्यां संधौ वैरूप्यभारिद्वधा । ऊरू एणाक्षि ते कान्त्या इभेन्द्रकरजित्वरौ ॥ १०४ ॥ अश्लीलक्लिष्टताभ्यां द्वे चन्द्रालोके कुसंध्यपि ।
बटवाकलय स्वास्थ्यं कुर्वलं गुर्वनुव्रतम् ॥ १०५॥ विसर्गत्वं च लक्षणम्' इति । ते उदाहरति-राम इति । ओजस्तेजः इमाः सर्वगुणवतीः पार्श्ववर्तिनीः पत्नीरित्यर्थः । अत्र क्रमेण चरणद्वये उदाहरणद्वयं बोध्यम् ॥ १०२ ॥ मतान्तरेण दोषान्तरमप्यत्रैवाह-एवमिति । नैरन्तयेणेत्यर्थः । उक्तं वाक्यदोषतया निणीतमिति यावत् । तदुदाहरति-चन्द्र इति । इदं हि विरहिण्याः खसहचरी प्रति वाक्यम् । कुसुमाकरो वसन्तः पुष्पित आरामो वा । इदं तूक्तं तत्रैव सोदाहरणम् । एवं बहुविसर्गत्वमपि दोषः । यथा-'स्मरः खरः खलः कान्तः कायः कृशतरः सखि' इत्यादाविति ॥ १०३ ॥ अथ विसंधिद्वैविध्येन लक्षयति-विसंधीति । संधौ संहिताख्ये संनिकर्षे । वचनेच्छाभ्याम् । 'ईदूदेद्विवचनं प्रगृह्यम्' इत्यादिना प्रगृह्यत्वविधानपूर्वकं प्लुतप्रगृह्या अचि नित्यम्'इति प्रकृतिभावविधायकं यद्वचनं तथा वक्तुर्या इच्छा ‘संहितैकपदे नित्या नित्या धातू. पसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते' इत्यभियुक्तोक्तेः संध्यविवक्षा ताभ्यामित्यर्थः । वैरूप्येति । विपरीताकृतिशालीत्यर्थः । अतएव द्विधेति संबन्धः । क्रमेण तदुदाहरति-ऊरू इति । हे एणाक्षि अयि मृगलोचने, ते ऊरू कान्त्या दीप्त्या । इभेति । ऐरावतकरपराभवचतुरावित्यर्थः। जगन्नाथपण्डितैस्त्वेतदश्रव्यभेदत्वेनैव रसगङ्गाधरे प्रतिपादितम् । तद्यथा-अथ खेच्छया संध्यकरणं सकृदप्यश्रव्यम् । यथा-'रम्याणि इन्दुमुखि ते किलकिंचितानि । प्रगृह्यताप्रयुकं वसकृदेव-'अहो अमी इन्दुमुखीविलासाः' इति । एवंच वाचनिकसंध्यभावीयासकृत्प्रयोगखमैच्छिकसंध्यभावीयसकृत्प्रयोगत्वं चेति विसध्याख्यं वाक्यदोषद्वयं फलितम् । यथावा नैषधीये-'अहो अहोभिर्महिमा हिमागमेऽ. प्यभिप्रपेदे प्रति तां स्मरार्दिताम् ।तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरां. बभूविरे' इत्यत्र वाचनिकसंध्यभावः । 'यां चिन्तयामि सततं मयि सा विरक्ता साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते तु परितुष्यति काचिदन्या धिक्तां च तं च मदनं च इमां च मां च' इति भर्तृहरिपद्य ऐच्छिकसंध्यभावश्च ज्ञेयः । यद्यत्र रसावेशः समाधानं तर्हि पूर्वपद्येऽपि सकृत्त्वं तन दण्डवारितमिति दिक् ॥ १०४ ॥ एवं प्रसङ्गाचन्द्रालोककृन्मते कुसंध्यभिधमपि दोषान्तरं द्विविधत्वेनाह-अश्लीलेति । चन्द्रालोके जयदेवकृते निरुक्तग्रन्थे-अश्लीलेति। अश्लीलं देशभाषादिनिन्द्यवस्तुप्रतीतिकरं क्लिष्टं क्लेशोच्चायें तच्च तच्चेति तथा तयो. भावी ताभ्यामित्यर्थः । कुसंध्यपि कुसंध्याख्यं वाक्यदोषान्तरमपि द्वे द्विःप्रकारक