________________
विषरत्नम् ६] सरसामोदव्याख्यासहितम् ।
२२१ विरुद्धवर्णता वाक्ये रसायनुचिताक्षरैः। नवोढे प्रौढतामोढुं गाढाश्लेषाढीभव ॥ १०१ ॥ ओत्वेनोपहता लुप्ता विसर्गावेह तत्तथा।
रामोऽयॊ भवतो यो नो यश ओज इमा अदात् ॥१०२॥ लाभे लाघवात् । नच पदैकदेश एवास्तूपदेशः । पदे खतिदेश इति वाच्यम् । पदैकदेशावृत्तीनामपि केषांचित्पदवृत्तित्वेन तदर्थपदेषूपदेशस्यावश्यकवादितीति ॥ १०० ॥ अथ विरुद्धवर्णतामेव वाक्यगतदोषेषु प्रथमं लक्षयति-विरुद्धेति । सरसकाव्य एवास्य दोषत्वं नतु चित्रेऽपीति सूचयति-रसेति । आदिना भावादिः । एवंच 'स्वच्छन्दोच्छलत' इत्यादिपद्ये गङ्गाख्यदेवताविषयकवक्तरतिसत्वेन 'रतिर्देवादिविषया व्यभिचारी तथाञ्चितः । भावः प्रोक्तः' इति लक्षितभावसत्वात्तदनुचितकठोरवर्णवत्त्वेपि न क्षतिः । तस्य शब्दचित्रत्वप्रसिद्धः । तथाच रसाद्यनुचितवर्णवत्त्वं विरुद्धवर्णताख्यो वाक्यदोष इति तल्लक्षणं फलितम् । अत्रानौचिलं तु प्रातिकूल्यमेव बोध्यम् । तेन तस्य रसास्वादप्रतिबन्धकत्वात्तदपोषकत्वलक्षणतदननुकूलत्वस्य पददोषे सत्वेऽपि न तत्रातिव्याप्तिः । वाक्यस्य पदसमूहतया निरुक्तप्रतिकूलवर्णबाहुल्येन रसास्वादप्रतिबन्धकत्वात्पदस्य तु तदभावेन तदननुकूलत्वमात्रतया तत्पोषस्यैवाजनकत्वात् । तदुदाहरति-नवोढ इति । इदं हि नूतनोद्वाहितां स्वपत्नी प्रति कस्यचित्कामातुरस्य तत्सख्या वा वचनम् । अत्र ढकारस्य टवर्गीयत्वेन तस्य शृङ्गाररसविरुद्धत्वाल्लक्षणसंगतिः। तदुक्तं काव्यप्रदीपे'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर' इत्युदाहृत्य, अत्र टवर्गः शृङ्गारप्रतिकूलः। 'अटवर्गा' इत्यादिना प्रतिषेधादिति । प्रतापरुद्रीये त्वेतदरीतिकमित्युक्तम् । वाक्यदोषास्तु संगृहीताः काव्यप्रकाशसूत्रे-'प्रतिकूलवर्णमुपहतलुप्त विसर्ग विसंधि हतवृत्तम् । न्यूनाधिककथितपदं पतत्प्रकर्षे समाप्तपुनरात्तम् । अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवा. च्यम् । अपदस्थपदसमासं संकीर्ण गर्भितं प्रसिद्धिधुतम् । भग्नप्रक्रममक्रमममतपदार्थ च वाक्यमेव तथा' इति ॥ १०१॥ एवमुपहतलुप्तविसर्गाख्यदोषद्वयं लक्षयति-आत्वेनेति । विसर्गत्वयोग्यत्वेन विसर्गपदवाच्ये सकारे 'ससजुषोरुः' इति रुत्वे 'हशिच' इत्यादिना उत्वे च कृते 'आद्गुणः' इति विहितेन ओकारत्वेनेत्यर्थः । उपहताः पराभूताः । लप्ता इति । लुप्ता वेत्यन्वयः । सकारे निरुक्तरुवोत्तरं 'भोभगोअघोअपूर्वस्य योशि' इति यादेशे 'लोपः शाकल्यस्य' इत्यादिना अदर्शनं प्राप्त इत्यर्थः । विसर्गा इति । अत्र यत्रेत्यध्याहारो बोध्यः । इह अलंकारशास्त्रे । तत् निरुक्तलक्षणं वाक्यदोषद्वयं तथा उपहतविसर्गाख्यं लुप्तविसर्गाख्यं च क्रमेण ज्ञेयमित्याशयः । तद्भूयस्त्वं तु प्राग्वदेवेति बहुवचनेनैव सूचितम् । तेन सकृदुपहतविसर्गत्वादावप्यदोष इति फलितम् । तदपि नैकट्येनैव वि. वक्षितम् । अतएवोक्तं काव्यप्रदीपे-नैरन्तयेणोत्वप्राप्तबहुविसर्गवं तथा लुप्तबहु