________________
२२० साहित्यसारम् ।
[पूर्वार्धे आतिदेशिकदोषाणां विधायैवं निरूपणम् ।
अथ वाक्यगता दोषाः प्रपश्यन्ते यथामतम् ॥ १०॥ काकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः' । अत्र विजेय इति यत्प्रत्ययः क्तप्रत्ययार्थेऽवाचक इति, तथा लिङ्गेति मेण्ढ़वाचित्वेन ब्रीडाजनकत्वात्तादृ गश्लीलरूपपदैकदेशदोषः स्पष्ट एव । यथावा साहित्यदर्पणे-'पाणिः पल्लवपेलवः' अत्र पेलवशब्दस्याद्याक्षरे अश्लीले इति । तेहि लाटभाषायां पुंगुह्यबोधकत्वेन तस्मारकत्वात्तथेत्यपरे । एवं रक्तेति रुधिरबोधित्वाज्जुगुप्साश्लीलाख्यतद्दोषोदाहरणम् । यथावा काव्यप्रदीपे-'यः पूयते सुरसरिन्मुखतीर्थसार्थनानेन शास्त्रपरिशीलनकीलनेन । सौजन्यमानजनिरूर्जितमूर्जितानां सोऽयं दृशोः पतति कस्य चि. देव पुंसः' । अत्र पूयेति पूयव्यञ्जकतया जुगुप्सादायीति । एवं नरकेति प्रत्यक्षमेवामङ्गलरूपाश्लीलाभिधपदैकदेशदोषत्वम् । यथावा काव्यप्रकाशे-'विनयप्रणयैककेतनं सततं यो भवदङ्ग तादृशः । कथमेव स तद्वदीक्ष्यतां तदभिप्रेतपदं समा. गतः' । अत्र प्रेतशब्दोऽमङ्गलमिति। तद्वदभ्रेचरेति संदिग्धम् । तत्र हि किमत्रे व्योम्नि अभ्रेषु मेघेषु वा चरति गच्छ तीति तथेति विवक्षितमाहोस्वित्पूर्वमभ्रमित्य. भ्रचर इति वेति तथात्वम् । यथा काव्यप्रदीपे–'कस्मिन्कर्मणि सामर्थ्यमस्य नो. त्तपतेतराम् । अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह' । अत्र चरभागो, 'भूतपूर्वे चरट्' इति चरट्प्रत्ययो वा 'चरेष्टः' इति टान्तश्वरधातुर्वेति संदेहात्पूर्व साधुरिति वा साधुषु चरतीति वा संदेह इति । तथा सुधेति नेयार्थम् । तस्य 'अमर्त्या अमृ. तान्धसः' इत्यमरादमृतस्थाने प्रयोगकरणेन तथात्वम् । यथावा साहित्यदर्पणे'संग्रामे निहताः शूरा वचोबाणत्वमागताः' । अत्र वचःशब्दस्य गीःशब्दवाचकत्वे नेयार्थत्वम् । तथा तत्रैव बाणशब्दस्थाने शरीरेति पाठे अत्र पदद्वयमपि न परिवृत्तिसहम् । जलध्यादौ तूत्तरपदम् । वडवानलादौ पूर्वपदमिति ॥ ९९ ॥ एवं निरूपितानातिदेशिकान्दोषानुपसंहरन् केवलवाक्यदोषनिरूपणं प्रतिजानीते
आतिदेशिकेति । अथेति । मम्मटभट्टादिमतान्यनतिक्रम्येत्यर्थः । नच पदैकदेशदोषाणां कथमातिदेशिकत्वमिति । श्रुतिकटुत्वादिपददोषशक्यतावच्छेदकावच्छिन्नान्यतमत्वस्य तत्रापि सत्त्वेनैकत्रोपदिष्टस्यान्यत्र कथनमतिदेश इति सुप्रसिद्धातिदेशनिर्दिष्टत्वेन तत्त्वानपायात् । उक्तं हि सपरिकरमिदं काव्यप्रदीपे-'शब्दस्तु त्रिधा-पदं तदेकदेशो वाक्यं च । एवंच तदाश्रितः शाब्दोऽपि त्रिविधः । तत्र पदानां वाक्य घटकत्वेन प्राथम्यात्प्रथमं तद्दोषनिरूपणमिति परमार्थः । तत्रेदं नि. रूप्यते। एवं पदैकदेशस्य पदापेक्षयापि प्राथम्यात्तदोषनिरूपणस्यैव प्राथम्यमहतीति। अत्र भास्करः-'सत्यमुच्यते परंतु पददोषेष्वेव यथासंभवं केचित् पदैकदेशदोषाः' इति समाधत्ते । तन्नातिमनोरमम् । अस्त्वेवं तथापि पदैकदेशदोषत्वेन प्रथमाभिधानापादने किमुत्तरमिति । वयं खालोचयामः । उपदेशे तावत् प्राथम्यादिविचारणा । अतिदेशस्तूपदेशानन्तरमेव । नच पदैकदेशे दोषः । अतिदेशेनैव त