SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । २१९ द्वयोरर्थयोर्बहुवचनमसाध्वेवेति । उच्यते। 'आशिषि नाथः' इत्यनेनाशिष्यात्मने. पदं नियमयता अनाशिषि तदभावो बोध्यते। तस्माद्याचने तस्य युक्तमसाधुत्वम् । 'खरितजितः कञभिप्राये क्रियाफले' इत्यनेन तु कर्बभिप्रेतक्रियाफलविवक्षायां तन्नियमयता पराभिसंबन्धविवक्षायां तनिषेधः प्रतिपाद्यत इति तत्रैवासाधुत्वं नतु कर्बभिप्रेतत्वाभावमात्रे । अतएव कर्चभिप्राय इति किं पराभिप्रेतफले माभूदित्यवोचत् । नतु कञभिप्रेतक्रियाफलत्वाभाव इति । नचात्र पराभिप्रेतक्रियाफलत्वं द्योलं किंतु कञभिप्रेतक्रियाफलत्वाऽद्योतनमात्रमिति नासाधु. त्वम् । एवं 'बहुषु वहुवचनम्' इत्येतत्सूत्रं बहुवचनं नियमयट्येकयोरुपस्थितयोस्तनिषेधति नतु बहुत्वाविवक्षामात्रे । दृशामित्यत्र च न द्वित्वैकत्वे विवक्षिते येनासाधुत्वं स्यात् । किंतु बहुत्वाविवक्षामात्रमित्यनर्थतैवेति युक्तमुत्पश्यामः । एतेनावयवाभिप्रायेण निरर्थकत्वम् । समुदायाभिप्रायेण त्वसाधुत्वमेवेति चण्डीदासमतमनादेयमिति । विवृतं चेदमुद्दयोते-आदावञ्जनेति।भाविविरहेण रुदन्त्याः कस्याश्चिद्वर्णनमिदम् । कुरङ्गीवेक्षणे यस्याः सा । 'कुक्कुट्यादीनामण्डादिषु' इति पुंवद्भावः । सा यत् दृशां संप्रत्येव संतापनाब्यवहितमेवाव्ययानामनेकार्थत्वात् । अश्रुपयसा निषेकं कुरुते तच्चेतोभुवो भल्लानां पानकर्मेवेत्युत्प्रेक्षा । शस्त्रं पङ्केन लिप्वाग्नौ संताप्य पयसि निक्षिप्यत इति पानकर्मखरूपम् । दृशः कामशास्त्रत्वेनाध्यवसायादित्थमुक्तिः । श्वासानिलेनोल्लासितः प्रवृद्धः अतएव प्रोत्सर्पन् समन्तात्प्रसरन्यो विरहजन्माऽनलोऽग्निस्तेन संतापितानाम् । नायिका चेयं भविष्यत्प्रवासपतिका अञ्जनसत्त्वात् । अलसेति । अलसवलितैरीक्षणैः को विलोक्यत इत्यादाविवेत्यर्थः । भावेति । भावेऽर्थे दृशेः क्विबित्यर्थः । विशेषणानन्वयेति । अञ्जनलेपादीनां क्रियायामसंभवादिति भावः । एवमिति । अत्र कुरुत इत्यात्मनेपदम् । उत्प्रेक्षितभल्लपानकर्मसाध्यमन्मथसंबन्धिजगद्विजयलक्षणकार्यस्य मृगदृशोऽनभिप्रेतत्वेन तदसंबद्धत्वेन च कर्तृगामिक्रियाफलाभावा. दनुपपन्नम् । अत एव निरर्थकम् । तद्द्योत्यस्य क्रियाफलगतकर्तृगामित्वस्याप्रत्ययात् । असाधुत्वं तु न । 'कमलवनोद्घाटनं कुर्वते ये' इतिवत्कामदेवगतफलस्य तत्संबन्धिनायिकायामारोपमात्रेण दृग्द्वयेऽपि बहत्वारोपेण च साधुत्वस्य निरूपयितुं शक्यत्वात् । आरोपफलाभावाच निरर्थकत्वमिति। तद्वत्पेयामिति यत्प्रत्ययः विदेति पदान्वयान्यथानुपपत्त्या क्तप्रत्ययार्थे प्रयुक्त इत्यवश्यमभ्युपेयं नोचेद्वित्वमेव व्याहन्येत । तस्माद्विदा अतएव सल्लिङ्गरक्ततः श्रोत्रैः पीतामित्यर्थः संमतः । प्रकृते च यत्प्रत्ययस्यार्थिकत्वेन भाव्येकविषयत्वं स्फुटमेव । विवक्षितं तु व्योमगामित्वसिद्धिसाधनीभूतयोगादिप्रवृत्तौ कारणत्वेन खाधिकारपूर्वकं गुरूपदिष्टवर्मत्वस्येष्टत्वाद्भूतार्थकत्वमेव । तत्र च सप्रत्ययो न वाचक इति पदैकदेशीयमवाचकदोषोदाहरणं बोध्यम् । यथावा काव्यप्रकाशे–'चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिभूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणु
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy