SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१८ साहित्यसारम् । [पूर्वार्ध मुनिगीतां विदा श्रोत्रैः पेयां सल्लिङ्गरक्ततः। एत्याभ्रचरतामधेन्नरकामः सुधान्धसि ॥ ९९ ॥ न्द्रियत्वादुक्तवाक्य .एव वक्तुमुचितस्तद्वदिति ॥ ९८ ॥ अथोक्तदोषाष्टकमप्येकेनैव श्लोकेनोदाहरति-मुनीति । नरकामः अभ्रचरतामपि एत्य सुधान्धसि एधेदिति संबन्धः । नरस्य मनुष्यत्वोपलक्षितस्य जीवस्य यः कामः अभिलाषः स तथा जीवतर्ष इत्यर्थः । अभ्रेति । अभ्रे 'द्योदिवौ द्वे स्त्रियामनं व्योम पुष्करमम्बरम्' इत्यमरात् व्योनि चरति गच्छतीति तथा तस्य भावस्तां अष्टाङ्गयोगप्रभावादणिमादिसिद्धिभिराकाशगामितामिति यावत् । तामपि एत्य प्राप्य । एतेन तदने कामनानवसरयोग्यत्वलक्षणं तत्र महत्त्वं ध्वनितम् । सुधेति । सुधैव 'पीयूषममृतं सुधा' इत्यमरात् पीयूषमेव अन्धः 'भिःसा स्त्री भक्तमन्धोऽन्नम्' इत्यमरादोदनो यस्य तस्मिन् देवत्वविषय इत्यर्थः । एधेदृद्धिं प्राप्नुयादिति यावत् । योगसिद्धिभिराकाशगामित्वेऽप्यने देवत्वप्राप्तीच्छा वर्धत एव । अतस्तृष्णावधिदुरन्त एवेति भावः । एतेन तत्त्याग एव श्रेयानिति द्योतितम् । नन्वाकाशगामित्वं पिशाचा. दीनामपि वर्तत एव ततः कथं कामोपशमेन भाव्यमिति चेतां विशिनष्टिमुनीति । मुनिभिर्योगशास्त्रप्रणेतृभिः पतञ्जल्यादिभिर्गीतां तत्रतत्र स्तुतामित्यर्थः। अतएव विदा पण्डितेन । अतएव । सल्लिङ्गेति । सतः ब्रह्मणः यानि लिङ्गानि हरिहरमूर्त्यादिप्रतीकानि तेषु यो रक्तः अनुरक्तः तस्मात् । सगुणब्रह्मभक्तसकाशा. दिति यावत् । श्रोत्रैः कर्णद्वारा पेयां पानकरसवत्सादरमास्वादनीयामित्यर्थः । एवं च तस्यामतिपूज्यत्वं व्यज्यते । अत्र मुनिगीतामित्यत्र गीताशब्दो भगवद्गीतायां रूढतम इति अप्रसिद्धेऽर्थे प्रयुक्तखात्पदैकदेशे निहतार्थकत्वम् । यथावा कुमारसंभवे-'यश्चाप्सरो विभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभति । बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम्' इति । अत्र मत्ताशब्दःक्षीबायां सुप्रसिद्ध इति तथा । एवं विदेत्येकवचनादेकस्य श्रोत्रैरिति बहूनां कर्णानां असंभवाद्बहुवचनं पादपूरणमात्रप्रयोजनत्वेन निरर्थकमेव । यथावा काव्यप्रदीपे-'आदावञ्जनपुञ्जलिप्तवपुषा श्वासानिलोल्लासितप्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् । संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लानामिव पानकर्म कुरुते कामं कुरशैक्षणा' । अत्र दृशामिति बहुवचनमविवक्षितार्थमेव वृत्तिपूरणायोपात्तम् । एकस्याः कुरजेक्षणाया दृगबहुत्वाभावात् । अलसवलितरित्यादिवद्यापारभेदावहत्वमिति चेन । तत्रेक्षणैरितिवदत्र तदनुपादानात् । नच भावसाधनतया दृक्शब्द एव व्यापारे वर्तते । विशेषणानन्वयप्रसङ्गात् । एवं कुरुत इत्यात्मनेपदमपि निरर्थकम् । प्रधानक्रियाफलसंबन्धस्य कर्तर्यविवक्षणात् । ननु 'आशिषि नाथः' इतिवत्कभिप्रेतक्रियाफलत्वाभावे आत्मनेपदमसाध्वेव नतु निरर्थकम् । वार्तिककृता 'नाथ नाधृ याञायाम्' इति धातोर्याचनार्थकत्वे परस्मैपदत्वेऽपि आशीर्वादार्थकत्वविवक्षायां त्वात्मनेपदं विहितम् । नाथत इत्यपि वानिरर्थकमेवाविशेषात् । एवंच
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy