________________
सरसामोदव्याख्यासहितम् ।
नमगौरीकटाक्षेद्धः स्पृष्टहेमाद्रितत्कुचः । शिवः पुनातु मोहार्चिद्ग्धव्याकुलमानसम् ॥ ९५ ॥ इत्यष्टादशवाक्येऽपि दोषानुक्त्वातिदेशिकान् । पदेकदेशगान्वक्ष्ये निहतार्थादिकानपि ॥ ९६ ॥ अष्टौ ते निहतार्थं च निरर्थकमवाचकम् | त्रिधालीलं च संदिग्धं नेयार्थ चेति पाशवत् ॥ ९७ ॥ दोषः पदैकदेशस्य वाक्ये वक्तुं किलोचितः । न वर्णपदयोः कन्या चरणाङ्गुलिवृद्धिवत् ॥ ९८ ॥
विषरत्नम् ६ ]
२१७
कामुकीत्यर्थः । एतादृशी ललना सुन्दर्यपि किं विरक्तस्य मे।न किंचित् । तुच्छैवेति यावत् । अत्र कठोरवर्णत्वात्परुषत्वं स्फुटमेव ॥ ९४ ॥ तथा जयदेवसंमतमन्यसंगताख्यं तमाह —-नमदिति । अत्र नमन् अतएव गौरीकटाक्षेणेद्धः समृद्धः अतएव स्पृष्टौ हेमाद्रिसदृशौ तस्याः कुचौ येन एतादृशः शिवः । मोहेति । मोहस्य अर्चिरिव अर्चिः, अथवा मोह एव पुत्राद्यासक्तिरेव अर्चिज्वाला विशेष - स्तेन दग्धमत एव व्याकुलं मानसं यस्य तं पुनात्विति संबन्धः । अत्र नमत्पदं गौर्या स्पृष्टपदं हेमाद्रिपदेन दग्धपदं व्याकुलपदेन च संगतं प्रतीयत इति ॥९५॥ एवमातिदेशिकान्वाक्यदोषानुपसंहृत्य पदैकदेशगान्दोषान्वक्तुं प्रतिजानीते - इत्यष्टादशेति । आतिदेशिकानिति च्छेदः । अतिदेशजानित्यर्थः। एते अष्टाः दशापि दोषाः पूर्वं पदगत्वेनोपपादिता एव त एव वाक्यगतत्वेनाप्युक्ता इत्यतिदेशजन्यत्वमेतेषां भवतीति भावः ॥ ९६ ॥ ननु के कतिच ते निहतार्थादिकापदैकदेशदोषा इत्यतस्तान् ससंख्यं सदृष्टान्तं चोद्दिशति – अष्टाविति । तेऽनुपदं प्रतिज्ञाताः दोषाः अष्टौ सन्तीति योजना । निहतार्थमित्यादयो भावप्रधाना निर्देशाः । यद्यपि प्रकाशादौ पदैकदेशगत्वेन प्रथमं श्रुतिकटुत्वाख्योऽपि दोषः समुपपादितस्तेन सह तत्रैते नव संपन्नास्तथापि तस्य मया वर्णदोष एवान्तर्भूतत्वेन प्रागेवोक्तत्वादिहाष्टावेवोच्यन्त इति ज्ञेयम् । पाशवदिति । 'घृणा शङ्का भयं लज्जा जुगुप्सा चैव पञ्चमी । कुलं जातिश्च शीलं चेत्यष्टौ पाशाः प्रकीर्तिताः ' इत्यभियुक्तोक्तं पाशाष्टकं यथा त्याज्यमेवमेतद्दोषाष्टकमपि सद्भिस्त्याज्यमेवेति भावः । ॥ ९७ ॥ नच तथाप्येतत्पददोषप्रस्ताव एव प्रपञ्च्य तदेकदेशविषयत्वादिति वा • च्यम् । तस्य वाक्यैकदूषकत्वेन तत्प्रकरण एवं वक्तुमुचितत्वादिति सनिदर्शनमुपपादयति - दोष इति । किलेति वाक्ये इत्यत्र योज्यम् । तेन वाक्य एव वक्तुमुचित इत्यर्थः । तद्द्यावर्त्यमाह - नेति । कन्येति तत्र दृष्टान्तः। अयमाशयः–'पादे प्रदेशिनी यस्या अङ्गुष्ठाग्रं व्यतिक्रमेत् । न सा भर्तृगृहे तिष्ठेत्खच्छन्दा कामचारिणी' इति सामुद्रिकोक्तेस्तद्दोषस्य यथा कन्यायाः सर्वशरीरदूषक - त्वमेव नतु कुष्ठवगौरवर्णदूषकत्वं नवा खञ्जत्ववत्पदमात्रदूषकत्वं तेन स तावदती -
१९