________________
२१६
[ पूर्वाधे
साहित्यसारम् । अम्बया रमतो नित्यं शंभोर्ब्रह्मशिरश्छिदः। . स्तेनानामपि नाथस्य स्मरणं भवदारणम् ॥ ९१ ॥ सूर्यतुर्याशनेत्रोऽयं चेदष्टार्धेऽम्बुजे स्थितः। कस्तहि बाणबाणोऽपि दृक्पद्योऽपि नवास्तथा ॥९२॥ या जरायाः पुरा रम्या वीक्ष्य तां षष्ठमिन्द्रियम् । अगस्तिप्रणतेरूज़ विन्ध्यतुल्यं कदा भवेत् ॥ ९३ ॥ कमठीपृष्ठकार्कश्यस्तनी प्रोद्भाजदीक्षणा।
ज्वलजित्वरहजन्मज्वलना ललनापि किम् ॥ ९४ ॥ शाख्यवाक्यदोषमुदाहृत्याधुनावसरप्राप्तं विरुद्धमतिकृदभिधं तमुदाहरति-अ. म्बयेति । शंभोः स्मरणं भवदारणं संसारध्वंसकमस्तीयन्वयः। कीदृशस्येत्यत्राम्बयेत्यादित्रीणि विशेषणानि । अम्बया गौर्या सह नित्यं रमतः । क्रीडत इत्यर्थः । तथा ब्रह्मणश्चतुराननस्य यच्छिरस्तच्छिनत्तीति तथा । एवं 'स्तेनानां पतये नमो नमः' इति श्रुतेस्तृतीयं प्रसिद्धमेव । अत्राम्बापदं ब्रह्मपदं स्तेनपदं च क्रमान्मात्रादिप्रतीतिजनकमिति तत्समूहत्वेनेदं निरुक्तवाक्यदोषोदाहरणं युक्तमेवेति बोध्यम् । यथावा काव्यप्रकाशे-'श्रितक्षमा रक्तभुवः शिवालिङ्गितमूर्तयः। विग्रहक्षपणेनाद्य शेरते ते गतासुखाः' । अत्र क्षमादिगुणयुक्ताः सुखमासत इति विवक्षिते हता इति विरुद्धार्थप्रतीतिरिति ॥ ९१ ॥ अथ प्रतापरुद्रीयमतरीत्या प्रागुक्तापुष्टार्थादिपददोषत्रयं वाक्यगतत्वेनाप्युदाहरन्प्रथममपुष्टार्थमुदाहरतिसूर्येति । सूर्येतिद्वादशानां संज्ञा तत्तुर्यांशस्तच्चतुर्थाशस्तत्संख्याकानि त्रीणि नेत्राणि यस्य स तथा । अयं यदि चेदष्टार्धे चतुर्थे अम्बुजे हृत्कमले स्थितः तर्हि बाणबाणः बाणसंख्याकाः पञ्चबाणाः यस्य स तथा एतादृशःमदनः क्व, तथा नवाः नूनाः दृक्पद्यः दृक्संख्ये पदे पादौ यासां तास्तस्था स्त्रिय इत्यर्थः । ता अपि क । नैव गण्यन्त इति योजना । अत्र सूर्यादिपदानां प्रकृतानुपयोगादपुष्टार्थवं ज्ञेयम् ॥१२॥ तद्वदप्रयोजकं वाक्यदोषमुदाहरति-येति । जरायाः पुरा तारुण्यादौ रम्या रन्तुं क्रीडितुं योग्येत्यर्थः । तां कामिनी वीक्ष्य षष्ठं 'मनःषष्ठानीन्द्रियाणि'इति श्रीमद्भगवद्गीतोक्तर्मनःसंज्ञकमिन्द्रियम् । अगस्तीति । कुम्भसंभवाय नमनादितियावत् । ऊर्ध्वं विन्ध्यतुल्यं निश्चलमिति यावत् । एतादृशं कदा भवेदित्याशंसा । अत्र जरादिमपदैः प्रकृते विशेषाभावाप्रयोजकत्वमिति ध्येयम् ॥ ९३ ॥ एवं क्रमप्राप्तं पुरुषाख्यवाक्यदोषमुदाहरति-कमठीति । कमठी कूर्मी तस्याः पृष्ठं तस्य यत्कार्कश्यं कठोरत्व तद्युक्तौ स्तनौ यस्याः सा तथा । एतेन तारुण्यं सूचितम् । एवमपि कुरूपा चेत्तत्राह-प्रोद्धाजदिति । प्रकर्षेण विशालत्वादिना उद्भाजती हरिणाद्यपेक्षयाप्यतिशोभमाने ईक्षणे नेत्रे यस्याः सा तथा । तत्रापि प्रातिकूल्यं वारयति-ज्वलदिति । ज्वलन् देदीप्यमानः अतएव जित्वरः पुंधैर्यजयशील एतादृशः हृदो मनसः जन्म उत्पत्तिर्यस्य स एव ज्वलनोऽग्निर्यस्यां सा तथा