SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । २१५ यो यः स्याद्भूमवान् सः स्याद्वह्निमान्यज्ञकुण्डवत् । पानं कृत्वा हली ब्रूते चैद्य चैद्येति रेवतीम् ॥ ८५ ॥ याहि याहि द्रुतं कुञ्जाद्राधे जातोऽरुणोदयः। गच्छगच्छाद्य मारीच सीतां मोहयितुं सखे ॥ ८६ ॥ प्राप्तः प्राप्तः श्रियः कान्तः समायां त्वखिलद्विजाः। देहि देहि धनुर्बाणं सौमित्रे हन्मि ताटकाम् ॥ ८७ ॥ सखि कृष्णोऽद्य मद्नेहं किमु यास्यति यास्यति । सुप्तो जजल्प राधे त्वं मानं जहि जहीति सः ॥ ८८ ॥ प्रहर प्रहराशु त्वं प्रार्थदुष्टं जयद्रथम् । क यासि युधि रामाग्रे रेरे रावण दुर्मते ॥ ८९॥ कृष्णकृष्णोपयाहीति राधोवाच नवाम्बुदम् । मातर्नहि नहीत्याह श्रीपतिर्दधिमोषणे ॥९॥ स्थलमाह-यो य इत्यर्धेन । अथैकादशभिरधैः क्रमान्मदादीनि तदनियत. स्थानान्युपस्थापयति-पानमित्यादिना । अत्र चैद्येति जल्पने हलित्वं तथा रेवतीं प्रति तत्रापि द्विरुक्तिपूर्वकं तादृग्भाषणे च पानं कृत्वेति हेतुरिति तत्त्वम् । तेनैतद्वचनहेतुभूतवीप्सायाः मदस्थलीयत्वं स्फुटमेवेत्याशयः ॥ ८५ ॥ याहीति। इदं मोहस्थलोदाहरणम् 'मोहो भयादिजा वृत्तिर्याथार्थ्यानवधारिणी' इति प्रागुक्ततल्लक्षणसत्त्वात् । अत्रारुणोदयं विनैव भयात्तत्संभावनमिति सारम् । गच्छेति । अत्र चापल्यं स्फुटमेव ॥ ८६ ॥ प्राप्त इति । इदं हि दुर्वासःसंयाचितनिशिभोजनकालिकप्रार्थनैकक्षणसंप्राप्तश्रीकृष्णदर्शनाव्यवहितोत्तरसामयिकद्रौपदीवाक्यं धर्मराजं प्रति । ततोऽत्र हर्षस्थलीयत्वं युक्तमेवेति ध्येयम् । अत्र श्रियःकान्त इति साभिप्रायम् । तेन अखिलेति संगच्छते । भोक्तुमिति शेषः । यतोऽत्र जगन्मातुर्लक्ष्म्याः पतिरेव भत्सहायः । समागतस्ततो यावद्ब्रह्माण्डवर्ति यावत्रैवर्णिकानामपि भोजनार्थमागमने क्षत्यभावः किं पुनर्दुर्वासःप्रभृतीनामिति रहस्यम् । देहीति । इदं तु वेगस्थलीयम् । 'अनातिशयावृत्तिरावेगः संभ्रमाभिधा' इति पूर्वोक्ततल्लक्षणस्य ताटकाकर्तृकगर्जनादिनात्र सत्वात्॥८॥सखीति। अत्रौत्सुक्यस्य स्पष्टतरत्वात्तत्स्थलीयमेतत् । सुप्त इति । सः श्रीकृष्णः । अत्रापि स्वप्नस्थलीयत्वं विशदमेव ॥ ८८ ॥ प्रहरेति । 'अमर्षश्चित्तवृत्तिः स्यादन्यनानापराधजा' इति पूर्वोक्ततल्लक्षणस्यात्र सत्वात्तत्स्थलीयमिदम् । केति । एवमधिक्षेपावमानादिजन्या ध्वंसेच्छुतोग्रतेति प्रागुक्ततल्लक्षणस्येह विद्यमानत्वात्तस्थलोदाहरणमेतत् ॥ ८९॥ कृष्णेति । 'उन्मादो विप्रलम्भादिजातान्यत्रान्यशेमुषी' इति पूर्वोक्तं तल्लक्षणस्येह स्फुटत्वात्तत्स्थलीयमेवेदम् । मातरिति । त्रासस्थलीयोदाहरणमेतत् । 'बासस्तु चित्तविक्षोभो भीरो|रेक्षणादिना' इत्यधस्तादुक्तलक्षणस्य तस्येह सत्त्वात् ॥ ९० ॥ एवं सपरिकरं सप्रसङ्गमविमृष्टविधेयां
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy