SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । - [पूर्वार्धे यं यं विषयमादत्ते बुद्धिर्बोधविभूषिता । तं तं तृणीकरोत्येव सतीव स्वपतीतरम् ॥ ८१॥ ससोऽवयव एवेति कान्तायाः स्वान्त आशु मे। श्रुत्यन्तं चिन्तयेयं यं हन्त शान्तिः कुतोऽन्ततः ॥ ८२ ॥ व्याप्तिप्रत्यायनेच्छैव वीप्सा सा तु परं प्रति । पञ्चावयववाक्यस्य प्रयोगे भवति ध्रुवम् ॥ ८३ ॥ मदे मोहे च चापल्ये हर्षे वेगोत्सुकत्वयोः। स्वनामर्षोग्रतोन्मादत्रासेष्वपि कदाचन ॥ ८४ ॥ रति-यंयमिति । यथावा मदीयाद्वैतामृतमजर्याम्-'खरसप्रकाशकानां यथायथा विकसनं सुविमलानाम् । विमलात्पाषाणादपि तथा तथा जायते रसःखच्छः' इति ॥ ८१॥ एवं तत्पदपूर्विकायास्तस्यास्तदाह-सस इति । हन्तेति खेदे । अहं यं यं श्रुत्यन्तं उपनिषद्भागं चिन्तये मननविषयीकरोमि स सः कान्तायाः सुन्दर्याः अवयव एव श्रुत्यन्तपदे न श्रुतिः कर्णः अन्ते 'अन्तः प्रान्तेऽन्तिके नाशे वरूपे च मनोहरे' इति कोशात्समीपे यस्येति व्युत्पत्त्या अपाङ्ग एवेत्यर्थः । मे मम खान्ते अन्तःकरणे आशु द्रुतं एति । अभ्यागच्छतीत्यर्थः । अतः शान्तिः अन्ततः यावद्देहपातं कुतो भविष्यतीति संबन्धः । निःशेषवाङ्मनःकायप्रवृत्त्युपरमात्मिका । ब्रह्मनिष्ठेह वेदान्तः पुंसः संपद्यते भृशम्' इति वार्तिकसारोक्तरीत्या जीवन्मुक्त्याख्यनिरतिशयशान्तिसाधनस्य वेदान्तविचारस्यापि यदा मयि वैफल्यं तदा नैवास्मिन्देहे किंचित्पुमर्थजातं सिद्ध्यतीयाशयः ॥ ८२॥ ननु वीप्साया एव किं लक्षणमित्यत आह-व्याप्तीति । व्याप्तेः साहचर्यनियमरूपत्वेन प्रसिद्धायाः यत्प्रत्यायनं परं प्रति प्रतीतिजननं तस्येच्छेत्यर्थः । अवधारणं लक्षणान्तरव्यावृत्त्यर्थम् । तस्याः नियतं स्थलमाह-सात्विति । तु पुनः सा वीप्सा । 'कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुयों लिक्ष्मीमथ मयि भृशं धेहि देव प्रसीद । यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय' इत्यादावपि निरुक्ता वाक्यव्यक्तिः संमतैवेति न काप्यनुपपत्ति रिति दिक ॥ ८३ ॥ नन्वत्र ध्रुवमित्युक्त्या तस्या अनियतं स्थानान्तरमप्यस्तीति ध्वनितं तर्हि तत्कतिविधमित्याकालायां तदाह-मद इति । एतेषां लक्षणादिकं त्वधस्तादेवोक्तं व्यभिचारिभावप्रस्तावे-वेगेति । वेग आवेशः । उत्सुकत्वमौत्सुक्यम् । अपिः समुच्चये । कदाचन नतु नियतमित्यर्थः । सा भवतीत्यनुकृष्य संबन्धः । एवं चास्यानियतमेकमनियतान्येकादशेति मिलित्वा द्वादशैव स्थानानीति सिद्धम् । तद्यञ्जकस्तु क्वचित् 'नित्यवीप्सयोः' इति सूत्रेण द्वित्वापन्न आदेशः क्वचित्पदाभ्यास एवेति बोध्यम् ॥ ८४ ॥ तानि द्वादशापि स्थलानि क्रमेण षडिरुदाहरन्नादौ पञ्चावयववाक्यगतोदाहरणाख्यतृतीयावयवरूपं तन्नित्य
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy