SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सरसामाव्या विषरत्नम् ६] सरसामोदव्याख्यासहितम् । २१३ आदेशो वर्तते तत्र नोत्तरत्र स युज्यते । यो यः साधुः स वन्द्यः स्यात्स स मुक्तो य आत्मवित्७९ यत्रोभयत्र वीप्सैव क्रमभेदविवक्षया। तत्र रूपद्वयेनैव यत्तद्भयां सर्वसंग्रहः ॥ ८०॥ रहस्यमुपदेष्टुं युक्त्यन्तरकथनव्याजेनाभिमुखयति-किंचेति। तदेव प्रपञ्चयतियत्पद इत्यारभ्याग्रिमार्धान्तेन । तुशब्दो विलक्षणयुक्त्यवद्योती । यत्पदे अथवा तत्पदे वीप्सायां विवक्षितायां सत्यां यत्रोदाहरणे साकल्यसूचकस्तद्धर्मावच्छिन्नयावत्संग्रह द्योतक इत्यर्थः । एतादृशः द्वित्वापन्नः द्वित्वं प्राप्त इतियावत् ॥ ७८ ॥ एवंभूतः आदेशः वर्तते तत्र तादृगुदाहरणे उत्तरत्र यत्पदाद्याकासितार्थपूरकत. तत्पदादौ सः प्रकृतो द्वित्वापन्न आदेशः न युज्यते नैव शास्त्रसंमतो भवतीत्यन्वयः । उक्तहि काव्यप्रदीपे-वस्तुतस्तु यद्यदिति न पदद्वयं किंतु 'नित्यवीप्सयोः' इति सूत्रेण वीप्सायां यदो द्वित्वापन्नोऽयमादेशः । तथाचादेशिना एकेन यत्पदेन तत्पदेन च द्वाभ्यामप्येकेनैव रूपेण पापपरामर्शः । आदेशस्तु साकल्येन संबन्धपरताग्राहक इति यत्पदीयेनैव तेन तदुपपत्तौ न तत्पदेऽपीति । उभयविधमपि तमुदाहरति-यो य इत्यर्धेन । यथावा कृष्णभक्तिचन्द्रिकाख्ये नाटके-'येये भिन्नमतावलम्बनरतास्तेषूपदेशेन किं ये चान्ये भुवि विस्फुरन्ति धनिकास्तद्दन्ध्र. णेनापि किम् । श्रीकृष्णस्य निषेवणोत्सवजुषां पुंसां सदा संगतौ नेष्ये कालममुष्य केवलकथापीयूषपानैरहम्' इति । द्वितीयोदाहरणेऽपि यथाह भर्तृहरिः'क्षान्तं न क्षमया गृहोचितमुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चितम्' इति । यत्र तु 'क्षोणीपर्यटनं श्रमाय विदुषां वादाय विद्यार्जिता मानध्वंसनहेतवे परिचितास्ते ते नराधीश्वराः । वि. श्लेषाय कुरङ्गसुन्दरदृशामास्ये कृता दृष्टयः कुज्ञानेन मया प्रयागनगरे नाराधि नारायणः' इति रसतरङ्गिणीश्लोकादौ केवलं वीप्साघटितस्तच्छब्द एवोपलभ्यते तत्र पूर्वोक्तवर्मना यच्छब्दस्यार्थिक एव संबन्ध इति संक्षेपः ॥ ७९ ॥ ननु 'सं. चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा। नरेन्द्रमार्गाट इव प्रपेदे विवर्णभावं स स भूमिपालः' इति रघुवंशीयपद्यादौ द्वयोरपि वीप्सैव यत्र दृश्यते तत्र व्यवस्थेत्यत्राह-यत्रोभयत्रेति । क्रमभेदेति । यथात्र नरेन्द्रकन्ययेन्दुमत्या क्रमेणातिक्रान्तानां राजकुमाराणां क्रमेण वैवर्ण्यवर्णनात्क्रमभेदो विवक्षित एव नत्वेककालावच्छेदेनैव सर्वातिक्रमणादिकमिति तद्वदित्यर्थः । रूपेति । भिन्नपदाभिन्नपदात्मनैवेति यावत् । सर्वेति । यावतां खापेक्षितपूरकतत्तद्धर्मावच्छिनार्थानां संग्रहणमित्यर्थः । तदुक्तं काव्यप्रदीपे-यत्र तु तत्पदेऽपि वीप्सा तत्र न यत्पदेऽप्यादेशः किंतूभाभ्यां रूपद्वयेन सर्वोपस्थापन मिति सारमिति । अत्र क्र. मेत्युक्त्या तदभावे तूत्तरपदे वीप्सानुचितैवेति द्योतितम् ॥ ८० ॥ तामुदाह
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy