SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४२ साहित्यसारम् । [ पूर्वाध व्याहतो निन्द्यते स्तुत्वाऽन्यथा वा यत्र स स्मृतः । कृतार्था धनिका एव तेऽप्यहो दुःखभागिनः ॥ १५२ ॥ सुन्दरीमूर्खसर्वस्वमस्तु मे तु चिदेव सा। पुनरुक्तः पदार्थो वा वाक्यार्थो वा द्विरुक्तिमान् ॥१५३ ॥ मृगाक्षि तव नेत्रे तु हरिण्या इव सुन्दरे। राधे विहर कृष्णेन कृष्ण संरस राधया ॥ १५४॥ अथापि मृगीभ्रान्तत्वात्तत्र जलप्रत्ययं न करोतीत्ययमप्रस्तुतोऽप्यर्थो दुर्बोधः । दूरे चास्मात्प्रस्तुतार्थबोध इति कष्टार्थत्वमिति । यथावा जानकीपरिणये-'निष्प्रत्यूहतपःप्रबन्धहुतभुग्ज्वालाभितप्तद्रुतक्षत्राकारसुवर्णपिण्डरचितब्राह्मण्यभूषोज्वलः । यः खर्गान्तरसर्गसाहसनिधिच्छेदार्थसार्थीभवद्गीर्वाणाञ्जलिपद्मकुड्मलशशी नालोकि लोकेन किम्' इति ॥ १५१ ॥ व्याहतं लक्षयति-व्याहत इति । यत्र वाक्ये अर्थविशेषः स्तुत्वा निन्द्यते वा इत्यथवा अन्यथा निन्दित्वा वा स्तूयते स वाक्यार्थः व्याहतः एतन्नामकदोषदुष्टो भवतीति संबन्धः । तच्छब्दस्याजहत्वार्थी वाक्यार्थे लक्षणा । एवंच सामानाधिकरण्येनैवोत्कर्षाद्यन्यतरपूर्वोत्तरवैपरीत्यावच्छिन्नार्थकत्वं व्याहतत्वमिति तल्लक्षणं बोध्यम् । तत्र 'धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रुपयः पिबन्ति शकुना निःशङ्कमङ्केशयाः । अस्माकं तु मनोरथोपरचितप्रासादवापीटक्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते' इत्यादावतिव्याप्तिरिति सामानाधिकरण्येनैवेति । अत्र वैयधिकरण्येनैव स्तुतिनिन्दयोः सत्वात् । तत्राद्यप्रकारमुदाहरति-कृतार्था इति ॥ १५२ ॥ द्वितीयमुदाहरति-सुन्दरीति । अत्र सामानाधिकरण्येनैव स्तुतिपूर्वकनिन्दादेः सत्वाल्लक्षणसमन्वयः । यथोक्तं काव्यप्रदीपे–'उत्कर्षों वापकर्षों वा प्राग्यस्यैव निगद्यते। तस्यैवाथ तदन्यश्चेव्याहतोऽर्थस्तदा भवेत्' इत्युपलक्षितविरुद्धववान् । यथा-'जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये। मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः' । अत्र पूर्वार्धे साधारणचन्द्रिकाचन्द्रकला खंप्रत्यसारतया प्रतिपादिता । तेनैवोत्तरार्धे चन्द्रिकात्वमुत्कर्षायारोप्यत इति व्याघात इति । पुनरुक्तं लक्षयति–पुनरुक्त इति । स्फुट एवार्थः ॥ १५३ ॥ तत्राद्यमुदाहरति-मृगाक्षीति । अत्र मृगाक्षीति संबुद्ध्यैव खप्रेयसीनेत्रयोम॑गनेत्रसमानसौन्दर्ये सिद्धेऽपि हरिण्या इवेति पुनस्तदापादनात्पदार्थपौनरुक्त्यं स्पष्टमेव । यथावा-'उदयदुदयदीक्षणाय पत्युश्चपलदृशस्त्रपया निरुध्यमानम् । मन इव कृपणस्य दानकाले कति न ततान गतागतानि चक्षुः' । अत्र चपलकत्वेन सिद्धोऽङ्गनानयनयोश्वाश्चल्यपदार्थ एवोदयदित्यादिना कतीत्यादिना च प्रपञ्चित इति तथात्वमित्याशयः । द्वितीयमुदाहरति-राधे इति । अत्रापि पूर्वोत्तरचरणोक्तयोर्वाक्यार्थयोस्तत्त्वमतिरोहितमेव । एतस्यैवैकार्थत्वं संज्ञितं कण्ठाभरणकारेण । यथावा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy