SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २११ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । यः श्रिये स गुणः साध्यो यो विदे यं समुच्छ्रयः। यः शान्त्यर्थमसौ बोधो यो मोक्षायैष संयमः ॥ ७० ।। कथं तर्हि खलो यः स हेय इत्यत्र तत्पदम् । न प्रसिद्धार्थमिति चेद्विसर्गव्यवधानतः ॥ ७१ ॥ यच्छब्दगैकदेशत्वं योऽसावित्यत्र संधिना। अदसोऽस्तीति तुलाघ्या प्रसिद्धार्थकता किल ॥ ७२ ॥ यद्येवं नित्यसंबन्धो यत्तदोरस्ति चेत्कथम् । यद्यन्ममत्वजनकं तत्याज्यमिति कथ्यते ॥ ७३ ॥ एकेनैव स्वरूपेण यत्तद्भयां वस्तुमर्शनम् । नियतं भवतीत्येवं न वदामो वयं क्वचित् ॥ ७४ ॥ चतुर्णामपि क्रमेणोदाहरणान्याह—यः श्रिये इति । ननु श्रीरपि प्रमादहेतुरत आह-यो विदे इति । विदे ज्ञानाय समुच्छ्रयः संपदुत्कर्ष इत्यर्थः । साध्य इति सर्वत्रानुकर्षणीयम् । ननु ज्ञानमपि लोके गर्वाद्यापादकं दृष्टं तत्राह-यः शान्त्यर्थमिति । उक्तंहि भगवद्गीतासु-'ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति' इति । तस्या अपि किं स्वतः पुमर्थ वमणिमादिद्वारा वा, नेत्याह-यो मोक्षायति ॥ ७० ॥ एवं चेन केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभागित्यादौ कुतो न तच्छब्दादेः प्रसिद्धार्थकत्वमित्याशङ्कय विसर्गेण व्यवहितत्वादेवेति समाधत्ते-कथमिति ॥ ७१ ॥ नन्वेवं तु 'योसौ शृणु तवेर्यते' इति प्रागुक्ते अविमृष्टविधेयांशाख्यवाक्यदोषोदाहरणेऽपि विसर्गमूलीभूतसकारस्योत्वादिना अदःशब्दे व्यवहितत्व समानमेवेत्यत आह-यच्छब्देति । योऽसावित्यत्र अदसः असावित्यदःशब्दस्य संधिना पूर्वरूपेण यच्छन्दगैकदेशत्वं यच्छब्दे यो इत्याकारके गच्छति पूर्वरूपेणान्तर्निविष्टो भवतीति तथा ता. दृशः एकदेशः अकाराख्यः पूर्ववर्णो यस्य तस्य भावस्तथेत्यर्थः । अस्तीति हेतोः पूर्वोक्तयच्छब्दानन्तरोर्ध्वस्थ इत्यादिलक्षणवैशिष्टयात् ।तु पुनः प्रसिद्धार्थकता किल श्लाघ्या प्रसिद्धार्थकत्वमेव मान्यं भवतीत्यन्वयः । तस्माद्युक्तमेव 'योऽसौ शृणु तवेर्यते' इत्युक्तस्योक्तदोषोदाहरणलमिति तत्त्वम् ॥ ७२ ॥ तत्र वीप्सास्थले क्वचिद्यच्छब्दावृत्तावपि तच्छब्दे तददर्शनात्तच्छब्दावृत्तावपि यच्छब्दे वा तददर्शनाच द्वितीययदादिशब्दान्निराकाङ्क्षाप्रतीतिः कथं भवति ययुक्तरीत्या यत्तदोर्नित्य एव संबन्ध इति सोदाहरणं शङ्कते-यदीत्यादिना। तत्समाधातुं प्रतिजानीतेकथ्यत इति ॥ ७३ ॥ शास्त्रार्थविशेषं वक्तुं प्रथमं स्वाभिसंधिमजानानमिव मला वादिनं प्रति तं विशदयति–एकेनैवेति ॥ ७४ ॥ अथैवमनुक्तौ प्रसिद्ध प्रयोगविशेषानुपपत्तिकारणत्वेन द्वाभ्यां विशदयन्नाद्येन प्रथमपठिततच्छब्दबाहुल्य
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy