SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१० साहित्यसारम् । [पूर्वार्धे यच्छब्दानन्तरोलस्थः सामानाधिकरण्यभाक् । तच्छब्दोऽपि निरूढोऽस्ति प्रसिद्धैकार्थकः शतम् ॥६७॥ यत्तदद्वैतमानन्दमात्रमात्माभमक्षयम् । अप्रमेयमपि प्राप्तुं श्रीगुरोः कृपया मया ॥६८॥ तस्माद्यच्छन्दतोऽदूरं स्थित एव विधायकः। तच्छन्दवदिदंशब्दोऽदःशब्दादिरपि ध्रुवम् ॥ ६९ ॥ युक्तवाक्यवशात्कोशं तथात्वेन स्पष्टयति-सा त्विति । सा तच्छब्दार्थकतेत्यर्थः । अदःपरस्मिन्नत्रापीति प्रागुदाहृतविश्वकोशे परशब्दितपरोक्षार्थकतच्छब्दार्थकतापि प्रसिद्धैवेति भावः । तत्र खकीयं गूढाशयं निबोधयितुमवधानं याचते-शुण्विति ॥ ६६ ॥ तमेव गूढाशयं स्फुटयति-यच्छब्देति । 'द्वैतसुप्तिर्विचित्रैव येदं दुःखोमिमज्जलम्' इत्यादाविदंशब्दस्य यच्छब्दाकाहितार्थपूरकत्वेन प्रसिद्धार्थबोधकत्वाभावात्तद्वारणार्थं द्वितीयपादेन विशेषणम् । सामानाधिकरण्यं समानलिङ्गविभक्त्यादिमत्त्वेनैकार्थप्रतिपादकत्वं तद्भजत इति तथेत्यर्थः । 'विषयासक्तचित्तो यः स बोधं कथमाप्नुयात्' इत्यादावतिव्याप्तिरतोऽनन्तरेति । अत्र हि विसर्गेण व्यवधानाद्यच्छब्दाकासितार्थपूरकत्वेन प्रसिद्धैकार्थबोधकत्वाभावात् । विषयेत्यायुक्तोदाहरण एव यत्तदोय॑त्यासेनातिप्रसङ्गव्युदासार्थमूर्ध्वस्थ इति । एतादृशः तच्छब्दोऽपि प्रसिद्धेऽपि प्रसिद्ध एव एकः केवलः अर्थः प्रमेयं यस्य स तथा । प्रसिद्धमात्रार्थबोधक इत्यर्थः । एतादृशः शतं निरूढोऽस्तीति योजना। अत्र अपिशब्दनादःशब्दादीनां निरुक्तविशेषणवैशिष्टये प्रसिद्धैकार्थबोधकत्वेन यच्छब्दाकाङ्कितार्थबोधकत्वाभावः कैमुतिकन्यायसिद्ध एवेति ध्वनितम् । एवमेवोक्तं काव्यप्रदीपे–'यच्छब्दाव्यवहितानन्तरवर्ती समानाधिकरणस्तच्छब्दोऽपि प्रसिद्धमात्रे निरूढः किंपुनरिदमादिरिति । विवृतं चेदं काव्यप्रदीपोद्योते नागोजिभट्टैः । प्रसिद्धमात्रे इति । एवंच नायं विधेयसमर्पक इति भावः । 'विभाति मृगशावाक्षी येदं भुवनभूषणम्' इत्यादौ प्रसिद्धबोधकत्वाभावात्समानाधिकरण इति । समानलिङ्गविभक्त्यादिक इत्यर्थः । 'परदारापहर्ता यः स वर्ग नाधिगच्छति' इत्यादिवारणायाव्यवहितेति। अत्र तु विसर्गेण व्यवहितः अत्रैव यत्तदोय॑त्यासेऽतिप्रसङ्गवारणायानन्तरवर्तीति ॥ ६७ ॥ तदुदाहरति-यत्तदद्वैतमिति । आत्मेति । आत्मनैव आभातीति तथा खप्रकाशमित्यर्थः । एतादृशमानन्दमात्रमिति संबन्धः । यथावा वेणीसंवरणे-'यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः। दीव्यताक्षैस्तदानेन नूनं तदपि हारितम्' इति ॥ ६८ ॥ नन्वेवं यदि नियमस्तर्हि कीदृशस्य तच्छब्दादेर्यच्छब्दोद्देश्यविधेयबोधकत्वमित्याशङ्कायां यच्छब्दानन्तरेत्यायुक्तविशेषणव्यावर्तितत्वेन फलितं वदन्समाधत्ते-तस्मादिति । यस्मानिरुक्तविशेषण एव तच्छब्दादिः प्रसिद्धबोधको नतु विधेयसमर्पकस्तस्माद्धेतोरित्यर्थः । आदिपदादेतच्छन्दोऽपि ॥६९॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy