SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६ ] सरसामोदव्याख्यासहितम् । मुग्धे गतागतैः किं ते तरङ्गवदपाङ्गयोः । विवेकोऽसौ न दम्भार्थ किंतु मुक्त्यै श्रुतीरितः ॥ ६३ ॥ कुरङ्गनयना यासौ पूर्णेन्दुवदनाङ्गना । मोहात्सर्वस्वमासीन्मे साद्य जीर्णतृणायते ॥ ६४ ॥ ननु नैवादसोऽन्यार्थ निषेधामो वयं किल । योऽन्तः शान्तोऽस्य साम्राज्यमित्यादि कथमन्यथा ॥६५॥ किंत्विदन्तार्थवत्तस्य तच्छब्दार्थकतामपि । वदामः सा तु कोशादावपीति यदि तच्छृणु ॥ ६६ ॥ श्वोक्ताभिधावृत्त्येति यावत्। अपरोक्षादिक इति । आदिपदात्प्रसिद्धपरोक्षार्थग्रहः . ॥ ६२ ॥ तत्रान्वयोदाहरणं विस्पष्टयति-मुग्धे इति । अत्र तरङ्गवदिति सदृष्टान्तं क्षणिकसुखापादकत्वेन युवत्यपाङ्गयोर्गतागतानां किंशब्दसूचिततुच्छत्वासादकविवेकस्यासावित्यदःशब्देन साक्षिप्रत्यक्षबोधनादपरोक्षार्थविवक्षासत्वे अदःशब्दसत्त्वमिति वा विपरीतं वाऽन्वयेनास्य प्रयोगोपलब्धिरस्तीति तात्पर्यम् । यथावा काव्यप्रकाशे-'असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः। वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः' इति ॥ ६३ ॥ ननु विवेकोऽसावित्यत्राप्यदसोस्तु तच्छब्दसाधात्तदर्थकत्वमेव नत्विदंशब्दार्थकत्वमिति वैपरीत्याभिमानिनं प्रत्यन्वय एवोदाहरणान्तरं वदन् व्यतिरेकेऽपि तदाह-कुरङ्गेति । यासाविति । जीर्णपदेनातितुच्छत्वं व्यज्यते । इह त्वदःशब्दस्येदमर्थकत्वमृते गत्यन्तरमेव नास्तीति प्रत्यक्षार्थविवक्षासत्त्वे अदःशब्दप्रयोगस्यापि सत्त्वमित्यन्वयोदाहरणं निर्विवादमेव । एवं यदि तस्य तच्छब्दपर्यायत्वं तर्हि सत्यस्य स्थाने प्रकृते अदःशब्द एव किमिति न प्रयुक्तः समनुकृष्टो वा स्यात्तेनैव यच्छव्दकासितार्थपूर्तिसंभवादतः प्रत्यक्षाद्यर्थस्य वक्तव्यत्वाभावे अदःशब्दप्रयोगस्याप्यभाव इति व्यतिरेकोदाहरणमपीति तत्त्वम् । काव्यप्रदीपे तु असौ मरुदिति पद्यमुदाहृत्य अत्रादःशब्दार्थमेवाभिदध्यान्न त्विदमर्थमिति तस्य तच्छब्दपर्यायतायां प्रतिबन्दीमभिधाय अथात्र वैपरीत्यादिष्टापत्तिमालम्बसे तर्हि 'करवालकरालदोःसहायो युधि योऽसौ विजयार्जुनैकमल्लः । यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात्' इत्यत्र स इत्येतत्पुनरुक्तं स्यात् । अदःशब्देन तदर्थाभिधानात्' इत्युक्तम् ॥६४॥ तत्र स्वाभिसंधिमुद्घाटयन् शङ्कतेनन्विति । सोदाहरणं किंचिन्यूनाभ्यां द्वाभ्याम् । सिध्येदिति शेषः । यत्रेदंशब्दस्यापि तच्छब्दार्थता तत्रादसैव किमपराद्धं तयोः समानशीलत्वात् । तस्माद. दसस्तच्छब्दार्थकत्वमपि ब्रूम इत्याशयः । यथावा काव्यप्रकाशे-'यो विकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । खात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम्' इति ॥ ६५॥ किंत्विदन्तेति । तस्य अदःशब्दस्य । तत्र प्रमाणाकाङ्क्षायां 'शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यव्यवहारतश्च' इत्यभि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy