________________
२०७
विषरत्नम् ६] सरसामोदव्याख्यासहितम् ।
तच्छब्दाक्षेपदक्षो यच्छब्दस्तूत्तरवाक्यगः। पूर्ववाक्यगतस्त्वीप्सेदुपादानं स तद्विरः ॥ ५५॥ रे मानस परं साधु कर्तव्यं भवताधुना। यन्निमजनमाप्येत सच्चिदानन्दवारिधौ ॥ ५६ ॥ यदि वैराग्यमाप्तं चेज्ज्ञानं वासुदृढं जितम् । इत्यादौ पूर्ववाक्येऽपि यत्तथास्ति तदव्ययम् ॥ ५७ ॥ एवं तदानीमित्यस्य सदृशानुपलम्भनात् । यदेत्येवाव्ययं विद्भिरध्याहार्य तदश्रुतौ ॥ ५८ ॥
न्धनैयत्यमित्यत आह-तच्छब्देति । शङ्कोपशमार्थस्तच्छब्दादस्य वैलक्षण्यावद्योतनार्थो वायं तुशब्दः । यच्छब्दस्तु उत्तरवाक्यगः पद्यादिगतद्वितीयवाक्यस्थित एव तच्छब्दाक्षेपदक्षस्तच्छब्दस्य आर्थिकसंबन्धेनाध्याहारक्षमो भवतीति योजना । इह तच्छब्दाक्षेपेत्युक्तेः परोक्षत्वादितदर्थाध्याहारो व्युदस्तो बोध्यः । तत्स्वीकारेऽपि शाब्दबोधासंभवादिति भावः । यथा प्रतापरुद्रीये-'वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपतेर्गुणश्रेणीश्लाघापिहितहरिदीशानयशसः । समन्तादुद्भूतैर्द्विरदमदगन्धैः सुरभयः क्रियन्ते यद्विद्वजनमणिगृहप्राङ्गणभुवः' इति । इदमेव व्यत्यासेनोत्तरार्धोदाहरणम् । तु पुनः पूर्ववाक्यगतः पद्यादिप्रथम. वाक्यस्थः सः यच्छब्दस्तद्गिरः तच्छब्दस्य उपादानं आर्थिकसंबन्धेन चारितार्थ्याभावाच्छाब्दिकसंबन्धार्थमुच्चारणं ईप्सेत्पद्यादावभिवाञ्छेदित्यन्वयः । तस्मात्पूर्ववाक्ये यच्छब्दश्चेदुत्तरवाक्ये तच्छब्दग्रथनमावश्यकमेवेत्याशयः ॥ ५५ ॥ तदुदाहरति-रे मानसेति ॥ ५६ ॥ ननु 'नितरां परुषा सरोजमाला न मृ. णालानि विचारपेशलानि । यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम्' इति पण्डितरायपद्यादौ पूर्ववाक्यपठितोऽप्यसौ तदाक्षेपकोऽवेक्ष्यत इत्याशङ्कय सत्यमेवं लोके सन्ति भूरिप्रयोगा इत्यभिसंधाय तादृक्प्रयोगोदाहरणपूर्वकं 'पक्षान्तरे चेद्यदि च' इत्यमरोक्तेस्तस्था प्रयोगस्य पक्षान्तरवाच्यव्ययनिबन्धनलमभिदधन्समाधत्ते-यदीति । अथ जितं भवेदिति संबन्धः ॥ ५७ ॥ इत्थमुक्केऽपि यदीत्यादावव्ययत्वेन समाधाने तदानीमित्यव्ययस्य यदा तदा यथा तथा यहितहि यत्रतत्रेत्यादिवद्यच्छब्दघटितमव्ययान्तरं नोपलभ्यत इति तत्र कथं यत्तदोर्नित्यसंबन्धनिर्वहणमित्यत्राह-एवमिति । एवं ननु प्रयोगसंदृष्टेरित्यायुक्तरीयेत्यर्थः । तदानीमित्यस्य सदृशानुपलम्भनात् यदेत्यादिवत्तदर्थापेक्ष्यार्थबोधकयच्छब्दावच्छिन्नान्याव्ययानुपलब्धेरिति यावत् । विद्भिः पण्डितैः यदेसेवाव्ययं तदश्रुतौ निरुक्ताव्ययस्य पद्यादौ कण्ठतः संग्रथनाभावे सत्यध्याहार्यमित्यन्वयः । तस्मात्तदानीं शब्दप्रयोगेऽपि यदेत्यादिप्रयोगाभावे तयोरार्थिक एव संबन्ध इति भावः ॥ ५८ ॥ उक्तन्यायमन्यत्राप्यतिदिशति