________________
२०६
साहित्यसारम् ।
[ पूर्वार्धे रामस्तां प्रेक्ष्य सानन्दः कौमुदी सद्विजो यथा । जानकी तं भुजं कण्ठे निदधे राक्षसद्विषः ॥ ५४ ॥
विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरकन्यकायाः' इति । यथावा वासवदत्तायाम्-'कठिनतरदामवेष्टनरेखासंदेहदायिनो यस्य । राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः' इति । अथ क्रमप्राप्ते द्वितीयस्योदाहरणीयत्वे तद्वैविध्यस्यैकतरस्थित्यस्थितित्वरूपप्रयोजकभेदेन प्रागेव सिद्धत्वात्तत्राप्याद्यस्य प्रागुक्तप्रकान्तादितच्छब्दार्थत्रैविध्येन त्रिधात्वं बोधयति-आर्थेऽपीति। संबन्ध इति शेषः। आद्यस्तदादिशब्दैकतरस्थितिप्रयोज्यो यत्तदोरार्थिकः संबन्ध इत्यर्थः । प्रकान्तेति । प्रक्रान्तादयः प्रक्रान्तप्रसिद्धानुभूताख्याः । अर्थस्तत्तत्प्रकरणवशात्प्रतिपाद्यो यस्य तादृशं तत्पदं यस्मिन्विषये स तथा प्रक्रान्तप्रसिद्धानुभूतान्यतमवाचकतच्छब्दजन्य इति यावत् । अतएव त्रिधा निरुक्तरीत्या त्रिप्रकारको ज्ञेय इत्यन्वयः ॥ ५३ ॥ तानेव प्रकारान्क्रमेणोदाहरति-राम इति । तां रामवर्णनप्रकरणात्सीतामित्यर्थः । तस्यैकपत्नीत्वेन स्त्रयन्तरावेक्षणजन्यान. न्दस्य सुतरामसंभवादिति भावः । तेनात्र तच्छब्दः पूर्वप्रक्रान्तार्थाभिधायीति तदपेक्षितयच्छब्दसंबन्ध आर्थिक एवेति लक्षणसंगतिः । यथावा काव्यप्रकाशे'कातर्य केवला नीतिः शौर्य श्वापदचेष्टितम् । अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः' इति । नैषधीयेऽपि–'खदृशो जनयन्ति सांत्वनां खुरकण्डूयन. कैतवान्मृगाः । जितयोरुदयत्प्रमीलयोस्तदखर्वेक्षणशोभया भयात्' इति । इह तदखर्वेक्षणेति श्रूयमाणस्तच्छब्दः पूर्वप्रक्रान्तायाः दमयन्त्याः परामर्शक इति तेन सह यच्छब्दसंबन्ध आर्थिक एवेति । कौमुदीमिति द्वितीयपादेन प्रसिद्धार्थकतच्छब्दोदाहरणम् । सः प्रसिद्धः कौमुदीवीक्षणजन्यानन्दशाली चकोराख्यो द्विजः पक्षी यथा कौमुदी चन्द्रिका प्रेक्ष्य सानन्दो भवति तद्वदित्यर्थः । लक्ष. णसमन्वयः प्राग्वदेव । यथावा कुमारसंभवे-द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी' इति। जानकीत्यर्धेनानुभूतार्थकतच्छब्दोदाहरणम् । अत्र समुच्चयार्थकोऽपिशब्दोऽध्याहार्यः । तेन जानक्यपि राक्षसद्विषः ताटकादिरावणान्तसकलरजनीचरशत्रोः श्रीरामस्य कण्ठे तं प्रास्वयंवरादावनुभूतं भुजं निजबाहुं निदधे गाढं स्थापयामासेति संबन्धः । यथावा भामिनीविलासे–'तन्मन्दमजुहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः । अद्यापि मे हृदयमुन्मुदयन्ति हन्त सायंतनाम्बुजसहोदरलोचनायाः' इति ॥ ५४ ॥ नन्वस्त्वेवमेकतरस्थित्याख्य आर्थे यत्तदोः संबन्धभेदे तच्छब्दस्य त्रैविध्यव्यवस्था तथापि यदि केवलो यत्र यच्छब्द एवोपलभ्यते तत्र तर्हि कथं तयोः संब