SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६ ] सरसामोदव्याख्यासहितम् । २०५ किंच तत्पदसाधर्येऽप्यस्य का नः क्षतिर्भवेत् । प्रक्रान्तसुप्रसिद्धानुभूतार्थत्वात्तदः खलु ॥ ५० ॥ ननु प्रयोगसंसृष्टेस्तयोः केवलयोरपि । सापेक्षत्वस्य नियमो यत्तदोरेव नेति चेत् ॥ ५१ ॥ मैवं तन्नित्यसंबन्धात्सतु शाब्दो द्वयोः स्थितौ । आर्थस्त्वेकतरस्यापि स्थितौ स्यादस्थितापिवा ॥ ५२ ॥ स खरो यो न जिज्ञासुरित्यादौ शाब्द एव सः। आर्थेऽप्याद्यस्त्रिधा ज्ञेयः प्रक्रान्ताद्यर्थतत्परः ॥ ५३॥ किमिति नास्य प्रसिद्धार्थाभिधायित्वं स्यादित्याह-अदःशब्दस्येति ॥ ४९ ॥ यदि 'अदसस्तु विप्रकृष्टम्' इत्युक्तवचन एव तव श्रद्धा चेत्तत्रापि तच्छब्दसाधर्म्यमेव यथा तच्छब्दस्य सामान्यतः परोक्षार्थवाचकत्वेऽपि प्रक्रान्तप्रसिद्धानुभूताख्यतद्विशेषत्रयवाचित्वं तत्र तत्र सुप्रसिद्धमेव । वक्ष्यते चात्रैवाग्रे तथा तद्वददसोऽपि वक्तव्यत्वेन प्रसिद्धार्थवाचित्वस्यापि संभवान काप्यस्मावनिरित्याह-किंचेति । अस्य अदःशब्दस्येत्यर्थः । तत्पदेति । तत्पदेन तच्छब्देन सह यत्साधयं परोक्षार्थवाचकत्वरूपसमानधर्मत्वे तस्मिन्सतीति यावत् । तदः तच्छब्दस्येत्यर्थः ॥ ५० ॥ ननु तथापि यदि यत्तदोर्नित्यसंबन्धः स्याचेद्योऽसौ पेण्वित्युक्तोदाहरणे यच्छब्दाकाङ्क्षापूरकतच्छब्दाभावाददःशब्दस्य चोक्तरीत्या प्रसिद्धार्थमात्रवाचकत्वेन विधेयांशापूरकत्वादनुपलब्धविधेयात्मकाविमृष्टविधेयांशाख्यवाक्यदोषत्वं भवेत्तदेव तु न नियतमिति शङ्कते-नन्विति । तत्र हेतुः-प्रयोगेति । 'स राज्यं गुरुणा दत्तम्' इत्यादौ केवलयोरपि परस्परशन्ययोरपि तयोर्यत्तच्छब्दयोः प्रयोगं संसृष्टेः प्रयोगाणां सम्यगुपलब्धत्वादित्यर्थः ॥५१॥ समाधत्ते-मैवमिति । तत्र हेतुः-तदिति । तयोर्यत्तच्छब्दयोः यो नित्यो व्यभिचारीसंबन्धः परस्परार्थापेक्षार्थकत्वं तस्मादित्यर्थः । अस्त्वेवं तयोर्नित्यः संबन्धस्तथापि काव्यादावेकतरतत्प्रयोगोपलब्ध्यन्यथानुपपत्त्या तस्य प्रकारभेदोऽवश्यं वाच्य एव । अतः स कतिविध इत्याकाङ्क्षायां शाब्दादिभेदेन तद्वैविध्यं सनिमित्तं व्युत्पादयति-सत्विति । तुशब्दस्तद्विशेषावद्योती । द्वयोर्यत्तच्छब्दयोरुभयोरपि स्थितौ विस्पष्टमेकस्मिन्वाक्ये विद्यमानत्वे सति शाब्दः संबन्धो भवति तथा एकतरस्थितौ यच्छब्दस्य तच्छब्दस्य वा स्थितौ तथा द्वयोरप्यस्थितावपि आर्थ आर्थिकः संबन्धो भवतीति योजना । अतो नैकतरप्रयोगेऽपि तयोर्नियतसंबन्धाभाव इति भावः । तदुक्तं काव्यप्रदीपे–'अनयोः परस्परार्थापेक्षार्थकत्वं नियतमेव । एतदेवोच्यते यत्तदोर्नियमभिसंबन्ध इति । सचाभिसंबन्धः शाब्द आर्थो वा। तत्र द्वयोरुपादाने शाब्दः । यथा-'स दुर्मतिः श्रेयसि यस्य नादरः' इति । एकस्य द्वयोरपि वा अनुपादाने त्वार्थ इति ॥ ५२ ॥ तत्राद्यमुदाहरति-स खर इत्यर्धेन । यथावा-'मुग्धा मुहु १८
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy