________________
साहित्यसारम् ।
परोक्षबहुदूरार्थे तत्पदादः पदे ह्यतः । तदैकार्थ्ये सति व स्यादुक्तोदाहरणं तव ॥ ४७ ॥ बाढयच्छन्दसान्निध्याददसः स्वार्थनिह्नवात् । प्रसिद्धैकार्थबोधित्वात्कुतोऽनौचित्यमत्र नः ॥ ४८ ॥ अदुःशब्दस्य कोशादावने कार्यत्वदर्शनात् । ततों यच्ब्दसाछन्निध्यात्प्रसिद्धार्थकता न किम् ॥ ४९ ॥ मेवोपदेष्टुमिति तत्र रे चैत्र यः सर्वेत्यादिना प्रातिलोम्यात्स्वर्गादिविषयगाढतरसुषुप्तिप्रातीतिककर्तव्यतावच्छिन्न जीवन्मुक्त्यवस्था विशेषजन्यसुखेभ्यो व्यावर्तकेन विशेषणत्रयेण विशिष्टं सुखं बोधेन सद्यो व्यनक्ति असौ तवेर्यते इति ण्वित्यन्वये काय दोष इति चेन्न । तथापि यत्तदोर्नित्यसंबन्धात्प्रकृते च तदभावादुक्तयुक्तेर्दोषानपायाच्च । तस्मायुक्तमेवेदमुदाहरणमिति दिकू ॥ ४६ ॥ तत्रोक्त वाक्यस्य निर्दोषत्वादनुदाहरणत्वं शङ्कते - परोक्षेति । भो आलंकारिक, हितौ । यतः कारणात् । तदिति । तदिति अद इति च पदे इत्यर्थः । परोक्षबह्निति । परोक्षः इन्द्रियव्यवहितः बहुदूरः अतिविप्रकृष्टश्च तावर्थौ यस्ते इत्यर्थः । एतादृशे स्तः । अतः हेतोः तदैकार्थ्य तयोस्तत्पदादःपदयोः यत् ऐकार्थ्य व्यवहितार्थकत्वसाधर्म्येणाभिन्नार्थकत्वं तस्मिन्सिद्धे सतीति यावत् । तव उक्तोदाहरणं निरुक्तं सर्वेत्यादिकमनुपलब्धविधेयाख्यमविमृष्टविधेयांशवाक्यदोषोदाहरणं क स्यादिति संबन्धः । तथाचाहु: - ' इदमस्तु संनिकृष्टं समीपतरवर्ति चैतदो रूपम् । अदसोऽतिविप्रकृष्टं तदिति परोक्षं विजानीयात्' इति । पूर्वपद्ये योऽसावित्यत्रादसो यच्छन्दसान्निध्येन प्रसिद्धार्थैकवाचि - त्वादुद्देश्यवाचिनो यच्छब्दस्य पूर्वपरामर्शिलेन स्वार्थसमर्पकतच्छन्दापेक्षित्वादिह तु तदभावादनुपलब्धविधेयत्वमभिमतं तत्ततरीत्यादः शब्दस्यापि तच्छन्दसाधर्म्ये तदर्थवाचित्वान्नैव संभवतीति भावः ॥ ४७ ॥ यत्किंचिदङ्गीकृत्य तत्र निमित्तान्तरेण समाधत्ते - बाढमिति । अदसः अदःशब्दस्य यच्छब्दसांनिध्याद्धेतोः स्वार्थनिह्नवादुक्तातिविप्रकृष्टरूपखाभिधेयतिरोधानान्निमित्तादित्यर्थः । अत एव । तस्य । प्रसिद्धेति । प्रसिद्धार्थपरामर्शकत्वादिति यावत् । तस्मादत्र निरुक्तोदाहरणे नः आलंकारिकाणां कुतः अनौचित्यमित्यन्वयः । तत्र मानं त्वनुपदमेवोक्तं काव्यप्रदीपीयम् ॥ ४८ ॥ ननु यच्छन्दसांनिध्येनादसः खार्थनिह्नवः प्रसिद्धैकार्थकथकत्वं च पारिभाषिकमेवेति चेन्न । 'अदः परस्मिन्नन्त्रापि' इति विश्वाददःशब्दस्य परोक्षापरोक्षोभयवाचित्वस्य सामान्यतः सिद्धत्वेन नानार्थकतया प्रागुक्तस्य नानार्थवाचके शब्दे 'शक्तिग्रहनियामकाः । संयोगादय एवात्र ज्ञेयाः प्राचीनसंमताः' । इत्युक्तस्य संयोगादिनिमित्तकदम्बस्य मध्ये शब्दस्यान्यस्य संनिधिरिति काव्यप्रकाशकारिको तान्यशब्दसान्निध्यस्यापि संगृहीतत्वेन पूर्वपद्यो - केन यच्छन्दसांनिध्येनादः शब्दस्य प्रसिद्ध कार्थवाचित्वस्य शास्त्रसिद्धत्वादिति
२०४
[ पूर्वार्धे