________________
२०३
विषरत्नम् ६ ] सरसामोदव्याख्यासहितम् ।
सर्वकर्तव्यताभावं निर्दुःखं परमं सुखम् ।
सद्यो व्यनक्ति बोधेन योऽसौ शृणु तवेर्यते ॥४६॥ तुशब्दो दिव्यसुन्दरीव्युदासार्थः । सदिति । सतां ब्रह्मनिष्ठानां यः सङ्गस्तत्र रजते संसक्तो भवतीति तथा तस्मिन्साधुसमागमानुरागिणीत्यर्थः । एतादृशेऽपि मयि । रक्तेति । एतेनात्यन्तबीभत्सत्वादनादरणीयतरखं ध्वनितम् । ईदृशीं नितम्बिनीम् । परतरुणीमितियावत् । यत् दिदृक्षुत्वं द्रष्टुमिच्छति दिदृक्षति दिदृक्षतीति दिदृक्षुस्तस्य भावस्तथात्वम् । निरुक्तयुवतिवदनदर्शनेच्छुत्वमित्यर्थः । भवतीति शेषः । अत्रैतत्पदविवक्षितोक्तकामुकत्वस्योद्देशत्वेन तत्र धिक्कारस्य विधेयत्वं विवक्षितम् । तथातु नैव प्रतीयते । उद्देश्यमनुक्त्वैव विधेयस्य प्रथममेव प्रयुक्तत्वात् । काव्यप्रदीपे तावत्-'अनुवाद्यमनुक्त्वैव नाभिधेयमुदीरयेत्' इति वृद्धवचनादित्यादिना सप्रमाणं तथा प्रयोगस्य निषिद्धत्वात् 'अयं विद्वान्'इत्यादौ लोके 'अयमात्मा ब्रह्म'इत्यादावाम्नाये च सर्वत्रोद्देश्यविधेयभावे विधेयस्याप्राप्तत्वेन प्राप्तस्यानुवाद्यस्योत्तरमेव प्रयोगदर्शनाच्च । तस्मादिदं वाक्यं विधेयव्युत्क्रमाख्यविमृष्टविधेयांशरूपतद्दोषदुष्टं बोध्यम् । यथावा काव्यप्रकाशे—'न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिक शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा वर्गग्रामठिकाविलुण्ठनवृथोच्छ्रनैः किमेभिर्भुजैः' । अत्र अयमेव न्यक्कार इति वाच्यम् । उञ्छूनत्वमात्रं त्वनुवाद्यम् । न वृथात्वविशेषितमिति ॥ ४५ ॥ एत्रमनुपलब्धविधेयमपि चरम तदुदाहरति-सर्वेति । सर्वकर्तव्यतायाः कृष्यादिना अग्निहोत्रादिना च यावल्लौकिकवैदिकपुमर्थसाध्यतायाः अभावः ‘सोऽश्रुते सर्वान्कामान्सह' इत्यादिश्रुतेः 'आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी' इति स्मृतेश्च निखिलकामपूर्त्या ध्वंसो येन तदित्यर्थः । ईर्यते कथ्यत इति यावत् । अत्र योसाविति पदयुगं क्रमादुद्देश्यविधेयाभिधायकतयाभिमतम् । तत्तु न संभवति । यच्छब्दसंनिहितादःशव्दादेः प्रसिद्धार्थबोधित्वात् । तेन विधेयस्यानुपलम्भादनुपलब्धविधेयात्मकाविमृष्टविधेयांशाख्यदोषदुष्टमिदं वाक्यमिति लक्षणसंगतिः । नचैवमस्य त्रैविध्ये मानाभावः शङ्कयः । काव्यप्रदीपे कण्ठत एव तथोक्तत्वात् । तद्यथा-'न केवलं विधेयस्योपसर्जनत्वव्युत्क्रमत्वाभ्यामेवायं वाक्यदोषः किंतु विधेयानुपस्थित्यापि'इति । उदाहृतं चेदं तत्रैव-'अपाङ्गसंसर्गितरङ्गितं दृशोभ्रुवोररालान्तविलासवेल्लितम । विसारिरोमाञ्चनकञ्चकं तनोस्तनोति योऽसौ सुभगे तवागतः' । अत्र योऽसाविति पदद्वयं उद्देश्यविधेयार्थकतया विवक्षितम् । उद्देश्यवाचिनो यच्छब्दस्य खार्थपरामर्शकतच्छब्दापेक्षितत्वात् । नचैतत्तत्प्रतिपादकं यच्छब्दसान्निध्येनादसादीनां प्रसिद्धपरामर्शकत्वादिति । नन्विदं हि वाक्यं मम गात्रं मम कलत्रं मम मित्रमित्यादिममत्वाभिनिवेशभ्रान्तं कंचित्प्रति कस्यचिदाप्तस्याद्वैतं ब्रह्म तत्त्व