________________
२०२
साहित्यसारम् ।
[ पूर्वार्धे
किं संयमनतोऽद्यापि भवद्भिर्भवतां भवेत् । शुद्धशास्त्रं भवेत्कीत्यै लसच्छान्ति विपश्चिताम् ॥४३॥ वावदूका सतां तत्तु प्रत्युतानर्थसार्थकम् । व्युत्क्रमानुपलब्धिभ्यां विधेयस्य द्विधेतरत् ॥४४॥ धिगेतदेव मां यत्तु रक्तमांसैकशालिनीम् ।
नितम्बिनी दिदृक्षुत्वं मयि सत्सङ्गरङ्गिणि ॥४५॥ विधुमण्डलं रमणीमुखं अतीय अतिक्रम्य कस्य शिरसः, पक्षे वेधसः ईशतां तदुपरिस्थितत्वेनाधिराजतां, पक्षे स्वामितां गतं प्राप्तं अतएव केशवं भवतां प्रसिद्धमेव यतस्तस्माद्भवतां युष्माकं श्लेषाद्भशब्दितनक्षत्रतुल्यमौक्तिकजालवतां, पक्षे नियम्यत्वेन नक्षत्रवतां ज्ञानवतां वा अद्यापि संयमनतः वेणीत्वसंपादनेन, पक्षे योगाभ्यासेन किं भवेदिति संबन्धस्य दूरान्वितत्वाव्यस्तपदसमूहत्वाचात्रोक्तक्लिष्टत्वमित्यवधेयम् । यथावा काव्यप्रकाशे-'धम्मिलस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्जत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्' इति ॥ ४२ ॥ एवं क्रमप्राप्तमविमृष्टविधेयांशं वाक्यदोषं विवृण्वस्तत्रापि समासगस्य तस्य पददोषोक्तलक्षणतौल्यात्पृथग्लक्षणान्तरानपेक्षतया तदुदाहरणमेवाह-शुद्धशास्त्रमिति । लसदिति । लसन्ती शोभमाना शान्तियेषां ते च ते विपश्चितो विद्वांसस्तेषां शोभि. शमजुषां विदुषामित्यर्थः । शुद्धति । शुद्ध शब्दार्थाभ्यांआचार्याचाराभ्यां विचारप्रचाराभ्यां च निर्दोषं एतादृशं यच्छास्त्रं शास्त्रोपलक्षितयावच्छब्दब्रह्माध्ययनत्वावच्छेदकावच्छिन्नान्यतममित्यर्थः । स्पष्टमन्यत् ॥ ४३ ॥ वावदूकेति । वावदूकाश्च ते असन्तश्च तेषां वादमात्रप्राधान्येनासाधूनामिति यावत् । तुशब्दो वैलक्षण्यावद्योती। तत्प्रागुक्तशास्त्रम् । अनथैति। अनर्थानां विघातानां सार्थः सङ्घो येन तत्तथा। विघातकमित्यर्थः । यद्वा अनर्थैः सार्थकं सप्रयोजनम् । अनर्थमात्रपर्यवसायीतियावत् । भवतीति शेषः । स्फुटमेवान्यत् । अत्र शुद्धति लसदिति वावदूकेति च पदत्रयेऽपि शुद्धत्वादिरूपविधेयां शस्यामुख्योक्तत्वापादकसमासपिहितवात्समासगताविमृष्टविधेयांशवाक्यदोषत्वमित्याशयः। यथावा काव्यप्रकाशे-'किं लोभेन विलम्बितः स भरतो येनैतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा।मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरुर्मातातातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम्' इति । अत्र मात्रेति लोभेनेत्यनेन योज्यम् । इदं हि लक्ष्मणस्य वचः । तेनात्रार्यस्य तातस्येति चापेक्षितं तत्तु नास्तीति तथेति दिक् । एवं तीसमस्तवाक्यगं तत्कतिविधं किंलक्षणं चेत्याकालायां तदुभयं संक्षिपति-व्युत्क्रमेति । व्युत्क्रान्तविधेयत्वानुपलब्धिविधेयत्वलक्षणाभ्यां हेतुभ्यां इतरदसमासगं अविमृष्टविधेयां. शाख्यवाक्यदोषजातं द्विप्रकारकं भवतीति योजना ॥ ४४ ॥ तत्राद्यमुदाहरतिधिगेतदेवेति । एतदेव मां धिगस्तु । एतत्किमित्यत्राह-यत्त्विति ।