SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । २०१ क्लिष्टादित्रितयं त्वत्र समासादावपि स्थितम् । क्रमेण सप्रसङ्गं तद्विज्ञेयं लक्ष्यलक्षणैः॥ ४० ॥ परमेष्ठिघटोद्भूतासुतसब्रह्मचारिणम् । तरङ्गिणीन्द्रकन्येशशस्त्रांशारातिमाश्रये ॥४१॥ दूरान्वितं भवेक्लिष्टं वाक्यं व्यस्तपदं यदि । कस्येशतां गतं पूर्णमतीत्य विधुमण्डलम् ॥ ४२॥ मध्यमाः 'स्यान्मध्यमा दृष्टरजाः' इत्यमरानूनतरुणीत्वेनातिप्रिया इत्यर्थः । एतादृश्यः कमलाः लक्ष्म्यंशीभूताः संपद इतियावत् । पुष्टिं समृद्धिं कथं यास्यन्तीत्यन्वयः । कामपारतन्त्र्ये हि विदुषामपि मदान्धत्वेन राक्षसखात्तेषां युक्तसंपत्तयश्च नैव कालत्रयेऽपि वर्धन्त इति कामजय एव कार्य इति तात्पयम् । किंच 'मध्यमं चावलग्नं च' इत्यमराधास्तावदमध्यमाः शून्यमध्यास्तेन परमकृशाङ्गीत्वात्तासां कमलानां कस्य हिरण्यगर्भस्यापि मलो रागावलेपो याभिस्तासां गौरीभारत्यादीनां देहस्थौल्यलक्षणपुष्टयाक्षेपो युक्त एवेति भावः । अत्र विपरीतेत्यादिस्वसंकेतैकसिद्धमिति तत्त्वम् ॥ ३९ ॥ एवं क्रमप्राप्ते क्लिष्टादौ वाक्यदोषे वक्तव्ये तत्र समासैकगतत्वनियमस्यासंभवाद्धम्मिल्लस्येत्यादिवक्ष्यमाणकाव्यप्रकाशोदाहरणादौ तस्य व्यस्तगतत्वेनापि दृष्टत्वादिति तस्य पदगच्युतसंस्कृत्यादिदोषवत्समासादिसाधारण्यमेव पदगतक्लिष्टादिवत्समासैकगतत्वव्युदासार्थ कथयति-क्लिष्टादीति । क्लिष्टाविमृष्टविधेयांशविरुद्धमतिकृतां त्रितयमित्यर्थः । तुशब्दः 'व्युदस्य च्युतसंस्कारम्' इत्यादिपूर्वतरपद्योक्तातिदेशात्मकोत्सर्गवशापादितप्रकृतविषयकतत्साम्यशङ्काव्यावृत्त्यै । अत्र वाक्यदोषप्रकरणे समासादावपि आदिपदाद्यस्तपदकदम्बग्रहः । स्थितं वर्तत इतियावत् । अतः बुधैरिति शेषः । सप्रसङ्गं स्मृतस्योपेक्षानहत्वं प्रसङ्गस्तेन सहितं वक्ष्यमाण. यत्तत्पदसंबन्धविचारविशिष्टं यथा स्यात्तथेत्यर्थः । तत् लक्ष्यलक्षणैः सोदाहरणासाधारणधमैः करणैः क्रमेणानुक्रमेण विज्ञेयं बोध्यमिति संबन्धः । एवंच पूर्वोक्तोत्सर्गस्यायमपवाद इति भावः ॥ ४० ॥ तत्रादौ सभासगतं क्लिष्टमुदाहरति-परमेष्ठीति । 'परमेष्टी पितामहः' इत्यमरात्परमेष्टी ब्रह्मा तस्य यो घटः कमण्डलुस्ततः उद्भूतं प्रादुर्भूतं यद्गङ्गाख्यं जलं तस्य सुतः षडाननस्तस्य सब्रह्मचारी सतीर्थ्यस्तमित्यर्थः । स्कन्दभार्गवरामयोः श्रीशंकरादेव विद्यावाप्तिः समकालमिति प्रसिद्धमेव पुराणादौ । एतादृशम् । तरङ्गिणीति । तरङ्गिण्यो नद्यस्तासामिन्द्रः समुद्रस्तस्य कन्या लक्ष्मीस्तस्या ईशः विष्णुस्तस्य शस्त्रं सुदर्शनं तदंशः कार्तवीर्यस्तस्य अरातिः शत्रुः परशुरामस्तमिति यावत् । अत्र परंपरैकसंबोध्यार्थकत्वात्समस्तपदसमूहवाच तादृग्वाक्यक्लिष्टत्वं बोध्यम् ॥४१॥ अथादिपदसूचितव्यस्तपदघटितवाक्यक्लिष्टस्य वक्तव्यत्वात्प्रथमं तल्लक्षयतिदूरेत्यर्धेन । तदुदाहरति-कस्यति । अत्र हे कुन्तलाः, भवद्भिः पूर्ण
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy