SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०० साहित्यसारम् । [पूर्वाधे मधुमुख्यधनाधीनधियां नः काधिवेधिका । विना विनाशुनासीरहीरहारिहरिस्मृतिम् ॥ ३८॥ विपरीतेन रामेण तथैवाखिलसाक्षराः। एतेषां कमलाः पुष्टिं कथं यास्यन्त्यमध्यमाः ॥ ३९ ॥ दनायाः डिण्डीरपिण्डवत् पाण्डिमशालिकपोलमण्डलं कस्तूरीतिलकादिना भूषयितुमनुत्सुक एतादृशः कः पुरुषोऽस्त्यत्र संसारे । यतः सर्वस्यापि पुरुषत्वावच्छिन्नस्य जीवकोटिनिविष्टत्वेन त्वदवरत्वात्सर्वेश्वरोऽपि त्वं चण्डीशस्तस्मात्खकीयाविषयकस्य तस्य वर्जनं दुर्घटमेवेति । अत एवोक्तम्-'अनुरकाङ्गनालोललोचना लोचनाकृति । खस्थीकर्तुं मनः शक्तो न विवेको महानपि' इति । अत्र 'डिण्डिरोऽब्धिकफः फेनः' इति हखोऽयम् । अमरपाठस्तु प्रामादिक एव । रामाश्रम्यां ह्रखस्यैव व्याख्यातत्वात् । इह पिण्डाण्डगण्डतुण्डशब्दास्तु ग्राम्या एवातो लक्षणसंगतिः ॥ ३७॥ तद्वन्नेयार्थमुदाहरति-मधुमुख्येति । मधुर्वसन्ते चैत्रे च दैत्ये पुष्परसेऽपि च' इति कोशान्मधुवंर्सन्तस्तस्य यः मुख्यः 'सखारतीशस्य ऋतुर्यथा वनम्' इति श्रीहर्षवचनात् प्रीतिविषयत्वेन पूज्यवत्प्रियः यो मदनस्तस्य यद्धनमिव सर्वखत्वाधिकरणं यौवनं तद्वत्यस्तरुण्य एव तदधीना तदनुरक्तत्वात्तत्परवशा धीबुद्धिर्येषां कामुकानामित्यर्थः । एतादृशा नः अस्माकं विना पक्षिराजेन गरुडेन । शुनासीरेति । 'वृद्धश्रवाः शुनासीरः पुरुहूतः पुरंदरः' इत्यमराच्छुनासीर इन्द्रः तस्य हीर इव शुक्लकुसुमः पारिजातः तं हरति सत्यभामातुष्टयर्थं अपहरति इन्द्रं पराजित्यानयतीति तथा सचासौ हरिः श्रीकृष्णस्तस्य स्मृतिस्ताम् । विना आधिवेधिका मन्मथकृतमानसव्यथाना. शिनीत्यर्थः । का । न कापीति संबन्धः । एवमहर्निशं युवतिचिन्तने कृतेऽप्येकां भगवत्स्मृतिं विना न कापि कान्तास्माकं संतापोपशान्तिकारिणी भवतीत्यतः सैव भजनीयेति भावः । अत्रातिलाक्षणिकवाक्यत्वात्तथात्वं बोध्यम् । मध्वादिपदव्यङ्गथं तूद्दीपनविभावादि स्वयमेवोह्यम् । हरेरुक्तविशेषणेनेश्वरस्याप्येवं रमणीवशवर्तित्वे कैव कथा पामराणामस्माकमतस्तद्वेदनाभिज्ञः सर्वज्ञः स एव शरणी. करणीय इति द्योत्यते ॥ ३८ ॥ अथ प्रतापरुद्रीयमते स्वसंकेतमात्रसार्थकत्वल. क्षणं नेयार्थमेवोदाहरति-विपरीतेनेति । अत्र हल्मात्रवैपरीत्यं विवक्षितं तेन मारेणेत्यर्थः । अखिलेति । अत्रापि अखिलाश्च ते साक्षराश्चेति कर्मधा. रयः । सर्वविद्वांसः । तथैव विपरीता एव अखिलपदं विहायैव वैपरीयं विवक्षितम् । तथात्वे राक्षसा एवेत्यर्थः । सन्तीति शेषः । सर्वेऽपि पण्डिताः स्मरशरखण्डिताः सन्तीत्याशयः । अस्त्वे का हानिरित्यत्राह-एतेषामिति । निरुक्तानां विदुषां अमध्यमाः न विद्यते मध्ये मध्यभागे मः मकारों यासां तास्तथा एतादृश्यः कमलाः मकारशून्यत्वे कलाः पाण्डित्यादिचातुर्य इति यावत् । पक्षे अमध्यमाः अस्य 'अकारो वासुदेवः स्यात्' इति कोशाद्विष्णोर्याः
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy